Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
इति गाथार्थः ॥ २४ ॥
अथ चतुर्विंशतितमीं षट्त्रिंशिकामाह वीसमसमाहिठाणे, दसेसणा पंच गासदोसे य ।
—
१
मिच्छत्तं च चयंतो, छत्तीसगुणो गुरू जयउ ॥ २५ ॥
व्याख्या - विंशतिरसमाधिस्थानानि, दशैषणादोषान्, पञ्च ग्रासैषणादोषान्, मिथ्यात्वं च त्यजन्, इत्येवं षट्त्रिंशद्गुणो गुरुर्जयत्विति सङ्क्षेपार्थः, विस्तरार्थस्त्वयम्-विंशतिरसमाधिस्थानानि द्रुतद्रुतचारादीनि । यदागमः
' दवदवचारि १ पमज्जिय २, दुपमज्जिय ३ रित्तसिज्ज ४ आणि ५ । रायणियपरिभासी ६, थेर ७ भूओघाई ८ य ॥ १ ॥
संजण ९ कोहणे १० पिट्ठमंसिर ११ भिक्खभिक्खमोहारी १२ । अहिगरणकरोदीरण १३, अकालसज्झायकारी १४ य ॥२॥ ससरक्खपाणिपाए १५, सद्दकरे १६ कलह १७ झंझकारी १८ य । सूरप्पमाणभोई १९, वीसइमे एसणासमिए २०॥३॥' इत्येतत्पदसंस्कारश्चायम्-द्रुतद्रुतचारी १, अप्रमार्जितस्थायी २, दुष्प्रमार्जित - स्थायी ३, घशालादिसेवी ४, अतिरिक्तशयनादिसेवी ५, रत्नाधिकपरिभाषी ६, स्थविरोपघाती ७, भूतोपघाती ८, सञ्ज्वलनोपघाती ९, दीर्घकोपी १०, पराङ्मुखावर्णवादी ११, अभीक्ष्णमभीक्ष्णं चौरस्त्वमित्यादिवादी १२, उपशान्ताधिकरणोदीरकः १३, अकालस्वाध्यायकारी च १४, सरजस्कपाणिपादः १५, रात्रावुच्चैः शब्दकरः १६, कलहकर : १७, गणभेदकारी १८, सूरप्रमाणभोजी १९. एषणायामसमितः २० इति ॥
तथा दशैषणादोषाः शङ्कितादयः यदाह -
'संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मी से ७ । अपरिणय ८ लित्त ९ छड्डिय १०, एसणदोसा दस हवंति ॥ १ ॥ '
( पञ्चाशकानि ६२० )
एतद्गमनिका यथा - शुद्धमप्यशुद्धमिति शङ्कितमकल्प्यम् १। प्रक्षितं
विंशतिरसमाधिस्थानानि, दशैषणादोषाः
...२२०...