Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 224
________________ 'सिणेहं १ पुप्फसुहमं २ च, पाणु३ तिंगं४ तहेव य । पणगं५ बीय६ हरियं७ च, अंडसुहुमं८ च अट्ठमं ॥ १ ॥ ' (दशवैकालिकसूत्रम् ३४९) इति गाथार्थः ॥ १८ ॥ अथाष्टादशीं षट्त्रिंशिकामाह १५ १५ ३ पंचदसजोगसन्ना-कहणेण तिगारवाण चाएण । सल्लतिगवज्जणेणं, छत्तीसगुणो गुरू जयउ ॥ १९॥ व्याख्या गतार्थैव। पञ्चदश योगाः सत्यमनः प्रभृतयः । यदाह - - 'सच्चं १ मोसं२ मीसं३, असच्चमोसं मणं तह वई य । १ उरल विउव्वाहारा, मीस्सा कम्मिग पनर जोगा ॥१॥ ' एतद्गमनिका -अस्ति जीवः सदसद्रूपो वा देहमात्रव्यापक इत्यादियथाऽवस्थितवस्तुविकल्पनपरं सत्यं मनः १ । जल्पनपरं सत्यं वचः २ । तद्विपरीतं मनो वचो वाऽसत्यम् ४। धवखदिरपलाशादिषु अशोकसद्भावादसत्यम्, तेषामपि सम्भवात् सत्यमिति मिश्रविकल्पनपरं मनो वचो वा मिश्रम् ६ । आमन्त्रण - प्रज्ञापनादिरूपं हे देवदत्त ! घटमानय, धर्मं कुरु, इत्यादिविकल्पनजल्पनपरं मनो वचो वाऽसत्याऽमृषम् ८। औदारिककाययोगः १, ओदारिकमिश्रकाययोगः २, वैक्रियकाययोगः ३, वैक्रियमिश्रकाययोगः ४, आहारककाययोगः ५, आहारकमिश्रकाययोगः ६, कार्मणकाययोग ७ श्चेति पञ्चदश योगाः । पञ्चदश सञ्ज्ञास्त्वाहारसञ्ज्ञादिकाः । यदाह 'चउसन्नाहाराई, दससन्न कसाय ओघलोगजुया । पनरससन्ना सुहदु-क्खमोहविचिगिच्छसोअजुया ॥ १ ॥ ' तत्राहारसञ्ज्ञा जलाद्याहार - ग्राहिणस्तृणादेरिव ॥ १ ॥ भयमोहनीयोदयाद्भयसञ्ज्ञा, सङ्कोचिनीवल्ल्यादेरिव २ । लोभमोहनीयोदयात्परिग्रहसञ्ज्ञा, तन्तुभिर्वृत्त्यादि वेष्टयन्त्या वल्ल्यादेरिव ३ । वेदमोहनीयोदयान्मैथुनसञ्ज्ञा, चम्पकतिलकाशोकादीनामिव ४ । क्रोधोदयात्क्रोधसञ्ज्ञा, कूपादाक्रोशकं प्रति १. ब-पुस्तके - “पलाशादिमिश्रेषु ” इत्यपि । २. धववनमित्यादिवाक्ये। अष्टौ सूक्ष्माणि, पञ्चदश योगाः, पञ्चदश सञ्ज्ञाः - ...२०९...

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258