Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education In
वचनलक्षणं कार्यं जनयतीति ? ॥ १२९० ॥ ननु यदि स भगवान् वीतरागः सर्वज्ञश्च ततस्तस्यैकान्तेन कृतकृत्य तया | प्रयोजनाभावात्तद्वत्तया प्रेक्षावतां व्याप्तो व्याहारो न युक्तो, व्याहरन्ति (ति) चेदवश्यं प्रयोजनापेक्षा, सा च राग इति कथं व्याहारान्न रागादिमत्त्वानुमानमित्यत आह
जंपति य वीयरागो य भवोवग्गाहिकम्मुणो उदया । तेणेव पगारेणं वेदिज्जति जं तयं कम्मं ॥ १२९१ ॥
जल्पति च वीतरागोऽपि सन् भगवान् भवोपग्राहिकर्मणः - तीर्थ करनामसंज्ञितस्योदयात्, यत् - यस्मात्तत्-भवो - | पग्राहि कर्म तेनैवाग्लान्या यथावस्थितवस्तुदेशनालक्षणेन प्रकारेण वेद्यते - अनुभूयानुभूय क्षयं नीयते, यदुक्तमार्षे - " तं च कहं वेइज्जइ अगिलाए धम्मदेसणाईहिं"ति । ततो भवोपग्राहि कर्मानुगततया कृतकृत्यताऽभावात्तत्क्षयार्थं शुद्ध| देशनाप्रवृत्तिरविरुद्धेति । स्यादेतद्, न रागादिकार्यत्वाद्वचनाद्रागादिमत्त्वानुमानमपि तु वक्तर्यात्मनि रागादेर्वक्तृत्वसहचारिणो दर्शनात्, अन्यत्रापि वक्तृत्वोपलम्भात् सहचारिणो रागादेरनुमानमिति, यद्येवं तर्हि आत्मनि गौरत्वसहच - रितस्य वक्तृत्वस्य दर्शनादन्यत्रापि कृष्णादौ वक्तरि गौरत्वमनुमातव्यम् । अथ न येन केनचित्सह खात्मनि दृष्टं वक्तृत्वं १ तच्च कथं वेद्यते अग्लान्या धर्मदेशनादिभिरिति ।
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584