Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
'वैद्यकज्योतिषशास्त्रमपि' वैद्यकशास्त्राणि ज्योतिषशास्त्राणि च अतीन्द्रियेषु-इन्द्रियातिक्रान्तेषु अभिधेयेषु अतीन्द्रियार्थज्ञायकविरहे-सर्वज्ञाभावे इतियावत् कथं नु संगत-संगतानि निश्चितविवक्षिताभिधेयानि युज्यन्ते इति वक्तव्यं ?, नैव कथंचनापि युज्यन्ते इति भावः, 'संगतंपीति' अपिभिन्नक्रमः स चादावेव योजितः ॥ १३०८॥ अत्र परस्याभिप्रायमाह
वुड्डपरंपरतो चिय अह तं आदीऍ णिच्छियं केण ? ।
अंधाण परंपरओ णहि रूवे मुणइ दीहो वि ॥ १३०९ ॥ अथ वृद्धपरंपरात एव वैद्यकादिशास्त्राणामतीन्द्रियेष्वर्थेषु संगतत्वमिति प्रतिपद्येथाः, अत्र आचार्य आह-तं आदीए' इत्यादि, तत्-वैद्यकादिशास्त्रमादौ-प्रथमतः केनातीन्द्रियेषु अर्थेषु निश्चितं ?, नैव केनचित् , सर्वस्यापि रागादिदोषपरीततया अतीन्द्रियार्थदर्शनलक्षणलोचनाभावेनान्धतुल्यत्वात् । एतदेव प्रतिवस्तूपमया स्पष्टयति-'अंधेत्यादि' न ह्यन्धानां परंपरको दीर्घोऽपि 'रूपे' रूपविषये किमपि 'मुणति' जानाति । “ज्ञो जाणमुणाविति" प्राकृतसूत्रतो ज्ञाधातोर्मुणादेशः। अत्रान्धतुल्याः सर्वेऽपि पुरुषास्तेषांरागादिमत्तयाऽतीन्द्रियार्थदर्शनलक्षणलोचनाभावात् , रूपकल्पा
धर्म, ७२ Jain Education indTObi
For Private Personel Use Only
POjainelibrary.org

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584