Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 565
________________ Jain Education Int समुदितमुभयं सवं अण्णतरेण णवि घेप्पति तयं च । भेदाभेदेवि महो एसो खलु होइ णातो ति ॥ १३६१ ॥ समुदितमुभयं - सामान्यविशेषलक्षणं सर्व समस्तं वस्तु, सकलमपि वस्तु सामान्यविशेषात्मकमित्यर्थः तच्च समुदितमुभयं - सामान्य विशेषरूपं मिथः- परस्परं भेदाभेदेऽपि सति नान्यतरेण - ज्ञानेन दर्शनेन वा गृह्यते, अविषयत्वात् । न हि रूपरसादीनामन्योऽन्यं भेदाभेदेऽपि चक्षुराद्यन्यतमेन्द्रियोद्भवेनाध्यक्षेण सर्वेषां ग्रहो भवतीति । एष खलु भवति न्यायो ज्ञातव्य इति ॥ १३६१ ॥ अत्राचार्य आह सामन्नमिह कहंची णेयं अब्भंतरीकयविसेसं । ते व इतरेण एवं उभयं पि ण जुज्जई इहरा ॥ १३६२ ॥ सामान्यमिह - जगति कथंचित् स्याद्वादनीया ज्ञेयं ज्ञातव्यमभ्यन्तरीकृतविशेषम् । समानपरिणामो हि सामान्यं, समानश्च परिणामोsसमानपरिणामानुविद्धः, अन्यथैकत्वापत्तितः समानत्वस्यैवायोगात् । असमानपरिणामः प्रतिव्य क्ति नियतो विशेषः, तदुक्तम्- 'असमानस्तु विशेष इति' । तेऽपि च विशेषा इतरेण- सामान्येन एवं सामान्यं विशेषै|रिवानुविद्धा द्रष्टव्याः । इतरथा - एवमनभ्युपगमे उभयमपि - उभयात्मकमपि वस्तु न युज्यते ॥ १३६२ ॥ ततः किमित्याह For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584