Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
AKAMAC-%
C
जह पासइ तह पासउ पासति सो जेण दंसणं तं से।
जाणति य जेण अरहा तं से णाणन्ति णेतवं ॥ १३५६ ॥ - यथा-येन प्रकारेण ज्ञानादभेदेन भेदेन वा पश्यति तथा पश्यतु, एतावत्तु वयं ब्रूमो-येन सामान्यावगमाकारेणा-1 ईन् पश्यति तत् दर्शनमिति ज्ञातव्यं, येन पुनर्विशेषावगमनिवन्धनेनाकारेण जानाति तत् 'से' तस्य अर्हतो ज्ञानमिति । न च युगपदुपयोगद्वयम् , अनेकशः सूत्रे निषेधनात्, ततः सिद्धं क्रमेण भगवतो ज्ञानं दर्शनं चेति ॥ १३५६ ।। एतदेव सूत्रेण दर्शयति
णाणम्मि दंसणम्मि य एत्तो एगयरयम्मि उवउत्तो।
सबस्स केवलिस्सवि जुगवं दो णत्थि उवयोगा ॥ १३५७ ॥ ज्ञाने तथा दर्शने, वाशब्दो विकल्पार्थः, अनयोरेकतरस्मिन् कस्मिंश्चिदुपयुक्तो, न तु द्वयोः, यतः सर्वस्य केवलिनो युगपत् द्वावुपयोगी न स्त इति ॥ १३५७ ॥ अपिच
उवयोगो एगतरो पणुवीसतिमे सते सिणातस्स ।
RESCR-
6-%CACC
Jain Education
For Private & Personel Use Only
(Galwww.jainelibrary.org

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584