Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 575
________________ जन्माभावे न जरा-ययोहानिलक्षणा आश्रयाभावात्, न च मरणं-प्राणत्यागलक्षणं, तदभावे न च भयमिहलोकभयादिभेदभिन्नं, तन्निबन्धनभवकारागृहावताराभावात्, न च संसारो-नारकादिभवभ्रमणरूपो, जन्माभावात् , [न च] एतेषां-जन्मादीनामभावात् कथं न सौख्यं परं तेषां सिद्धानां, ? सौख्यमेवेति भावः । जन्मादीनामेव दुःखरूप-1 | त्वादिति ॥ १३८२ ॥ 'अव्याबाधात' इति प्रपञ्चयन्नाह अवाबाधाओ चिय सयलिंदियभोगविसयपजते । उस्सुगविणिवित्तीतो संसारसुहं च सद्धेयं ॥ १३८३ ॥ अव्याबाधात एव सिद्धानां सौख्यं श्रद्धेयम् । किमिवेत्याह-सकलेन्द्रियभोगविषयपर्यन्ते' अशेषचक्षुरादीन्द्रियप्रकृष्टरूपादिविषयानुभवचरमकाले औत्सुक्यनिवृत्तेः-अभिलाषव्यावृत्तेरुपजायमानं संसारसुखमिव, तस्यापि मनोज्ञविषयोपभोगतः तद्विषयौत्सुक्यनिवृत्तिरूपत्वात् , उक्तं च-"वेणुवीणामृदङ्गादिनादयुक्तेन हारिणा । श्लाघ्यस्मरकथावद्धगीतेन स्तिमितः सदा॥१॥कुट्टिमादौ विचित्राणि, दृष्ट्वा रूपाण्यनुत्सुकः।लोचनानन्ददायीनि, लीलावन्ति खकानि |हि ॥ २॥ अम्बरागुरुकर्पूरधूपगन्धानितस्ततः। पटवासादिगन्धांश्च, व्यक्तमाघ्राय निःस्पृहः ॥३॥ नानारससमायुक्तं, भुक्त्वाऽन्नमिह मात्रया। पीत्वोदकं च तृप्तात्मा, खादयन् खादिमं शुभम् ॥ ४॥ मृदुतूलीसमाक्रान्त ARROSSEX For Private Personal Use Only D Jain Education ainelibrary.org

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584