Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मसंग्रहणीवृत्तिः
॥४४८॥
दिव्यपर्यङ्कसंस्थितः । सहसाम्भोदसंशब्दश्रुतेर्भयघनं भृशम् ॥ ५ ॥ इष्टभार्यापरिष्वक्तस्तद्रतान्तेऽथवा नरः । सर्वेन्द्रि यार्थसंप्रात्या, सर्वबोधनिवृत्तिजम् ॥ ६ ॥ यद्वेदयति स हृद्यं, प्रशान्तेनान्तरात्मना । मुक्तात्मनस्ततो नित्यं सुखमाहुर्मनीषिणः ॥ ७ ॥ इत्यादि " ॥ १३८३ ॥ संसारसुखमपि औत्सुक्यनिवृत्तिरूपत्वान्मोक्षसमानमभिहितं तन्मा भूदतिविषयामिषलालसानां तत्रैवास्थानिर्बन्ध इति ततः सकाशात् मोक्षसुखे विशेषमाह -
इयमित्तराणिवित्ती सा पुण आवकहिया मुणेयवा । भावा पुणो वि णेयं एतेणं तई णियमा ॥ १३८४ ॥
इयमिन्द्रियविषयभोगपर्यन्तकालभाविनी औत्सुक्यनिवृत्तिरित्वरा - खल्पकालावस्थायिनी, सा पुनः - सिद्धानां संबन्धिनी औत्सुक्यनिवृत्तिः सार्वकालिकी मुणितव्या । कुत इत्याह- 'भावेत्यादि' यस्मादियमिन्द्रियविषयोपभोगपर्यन्तकालभाविनी औत्सुक्यनिवृत्तिर्नैकान्तेन सर्वथा निवृत्तिरेव, किमित्याह - भावात् पुनरपि - भूयोऽपि प्रवृत्तेः, सा पुनः सिद्धानां संबन्धिनी औत्सुक्यनिवृत्तिर्नियमात् एकान्तेनैव निवृत्तिरेव, न पुनर्भूयोऽपि भवतीतियावत् । ततो महदेव सिद्धानां सौख्यमिति, तत्रैव न्यायचक्षुषामास्थानिर्बन्धो युक्त इति ॥ १३८४ ॥ इय अणुभवजुत्तिहेतुसंगतं हंदि णिट्टितट्ठाणं ।
Jain Educationational
For Private & Personal Use Only
मोक्षीयसुखसिद्धिः
॥४४८ ॥
www.jainelibrary.org

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584