Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मसंग्रह- अतीन्द्रिया अर्था इति ॥ १३०९ ॥ अथ मन्येथाः-खत एव तत्र ज्योतिषादिशास्त्रमात्मीयमर्थं कस्मैचित् पुरुषाय णीवृत्तिः निवेदितवत् , स चान्येभ्यस्तमर्थ, ते चान्येभ्यस्तेनादोष इति, अत्राह
न य तं सयं कहेई ममेस अत्थो अचेयणतणतो। ॥४२७॥
__पुरिसेण विवेचिजइ एसो तु मतीविसेसेण ॥ १३१० ॥ न च तत्-ज्योतिषादिशास्त्रं खयमात्मीयमर्थ कथयति यथा-'मम एषोऽर्थो नान्यः' इति, कस्मान्न कथयतीत्यत आह-अचेतनत्वात् , घटादिवत् , किंतु पुरुषेणैव मतिविशेषेणैव विवेच्यते, यथा 'एषोऽस्यार्थो नान्यः' इति । तुरअवधारणे भिन्नक्रमश्च, स च यथास्थानं योजितः॥१३१० ॥ ननु यदि पुरुषेणार्थो विवेच्यते तर्हि किमत्र सूर्ण ?, न |हि पुरुषा नाभ्युपगम्यन्त इत्याह
णय सामण्णमतीए विवेचितुं तीरती ततो पढमं ।
सुविवेचित सिटे उण तहा गहो होतिमीए वि ॥ १३११ ॥ न च सामान्यमत्या-सामान्यज्ञानेन 'तओ त्ति' सकोऽर्थः प्रथमं विवेचयितुं शक्यते, तस्य तदगोचरत्वात् , किंतु मतिविशेषेण-ज्ञानविशेषेणातीन्द्रियार्थदर्शनलक्षणेन, तेन च मतिविशेषेण सुविवेच्य शिष्टे-कथिते सति पुनस्तस्मिन्नर्थे
5%E-RORSCORRECACACCAS
॥४२७॥
En Edanemo
For Private Personal use only
www.janelibrary.org

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584