Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 549
________________ Jain Educatio एवं केवलिणोवि हु असेसविसयं पि समए वि ॥ १३३२ ॥ यथा कस्यापि समयज्ञस्य - समयवशादधिगतधर्मास्तिकायादिवस्तुखरूपस्य कदाचित् शीघ्रं पञ्चास्तिकाय विज्ञानं जायते, एवम् - अमुनैव प्रकारेण केवलिनोऽप्यशेषद्रव्यपर्याय प्रपञ्चविषयमपि समये - समयमात्रेण जायत इत्यदोषः । उक्तं चान्यैरपि - " यथा सकलशास्त्रार्थः, स्वभ्यस्तः प्रतिभासते । मनस्येकक्षणेनैव तथाऽनन्तादिवेदनम् ॥ १ ॥” इति, अनन्तादिवेदनमिति - अनाद्यनन्तवेदनम् ॥ १३३२ ॥ यद्येवं तर्हि यत् तत्र तत्र प्रदेशे उच्यते- 'सर्वगतावभास'मित्यादि, तथा “स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवद् ॥ १ ॥” इत्यादिना चन्द्रादिप्रभाज्ञातं च तत् विरुद्ध्यते एव, आत्मथस्यैव केवलज्ञानस्य सकलवस्तुपरिच्छेदशक्तिमत्त्वाभ्यु|पगमे तस्यानुपपद्यमानत्वात्, अत आह— एवं चिय सवगतावभासमिच्चादि जुज्जति असेसं । चंदादिपभाणाते उवमामेत्तं मुणेयवं ॥ १३३३ ॥ एवमेव - उक्तेनैव प्रकारेण 'सर्वगतावभास' मित्याद्यशेषं युज्यते, अवभासशब्दस्य परिच्छेदरूपशक्तिवाचकत्वात् । यदुक्तमाचार्येणैवान्यत्र - " सर्वगतावभासमित्यादि विरुज्यत इति चेत्, न, परिच्छेदशक्तेरवभासत्वादिति" । यत्तु For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584