________________
Jain Educatio
एवं केवलिणोवि हु असेसविसयं पि समए वि ॥ १३३२ ॥
यथा कस्यापि समयज्ञस्य - समयवशादधिगतधर्मास्तिकायादिवस्तुखरूपस्य कदाचित् शीघ्रं पञ्चास्तिकाय विज्ञानं जायते, एवम् - अमुनैव प्रकारेण केवलिनोऽप्यशेषद्रव्यपर्याय प्रपञ्चविषयमपि समये - समयमात्रेण जायत इत्यदोषः । उक्तं चान्यैरपि - " यथा सकलशास्त्रार्थः, स्वभ्यस्तः प्रतिभासते । मनस्येकक्षणेनैव तथाऽनन्तादिवेदनम् ॥ १ ॥” इति, अनन्तादिवेदनमिति - अनाद्यनन्तवेदनम् ॥ १३३२ ॥ यद्येवं तर्हि यत् तत्र तत्र प्रदेशे उच्यते- 'सर्वगतावभास'मित्यादि, तथा “स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवद् ॥ १ ॥” इत्यादिना चन्द्रादिप्रभाज्ञातं च तत् विरुद्ध्यते एव, आत्मथस्यैव केवलज्ञानस्य सकलवस्तुपरिच्छेदशक्तिमत्त्वाभ्यु|पगमे तस्यानुपपद्यमानत्वात्, अत आह—
एवं चिय सवगतावभासमिच्चादि जुज्जति असेसं । चंदादिपभाणाते उवमामेत्तं मुणेयवं ॥ १३३३ ॥
एवमेव - उक्तेनैव प्रकारेण 'सर्वगतावभास' मित्याद्यशेषं युज्यते, अवभासशब्दस्य परिच्छेदरूपशक्तिवाचकत्वात् । यदुक्तमाचार्येणैवान्यत्र - " सर्वगतावभासमित्यादि विरुज्यत इति चेत्, न, परिच्छेदशक्तेरवभासत्वादिति" । यत्तु
For Private & Personal Use Only
www.jainelibrary.org