________________
धर्मसंग्रह- णीवृत्तिः
केवलज्ञाने चन्द्रप्रभाया दृष्टान्तमात्रता
S
॥४३५॥
चन्द्रादिप्रभाज्ञातं तत् उपमामात्रमेव ज्ञातव्यं, नतु तदृष्टान्तावष्टम्भेन केवलज्ञानस्यापि ताथात्म्यम् ॥ १३३३ ॥ कथं चन्द्रादिप्रभाज्ञातमुपमामात्रमित्यत आह
जम्हा पहा वि दवं पोग्गलरूव त्ति चंदमादीणं ।
ण य भिन्नाभिण्णाणं एवं जुत्तिं समुबहति ॥ १३३४ ॥ यस्मात् प्रभापि चन्द्रादीनां-चन्द्रादित्यग्रहनक्षत्रतारकामणिप्रदीपादीनां संबन्धिनी द्रव्यम् । कुत इत्याह'पौद्गलरूपेति' यत इयं प्रभा पुद्गलरूपा, पुद्गलरूपताऽस्था घटादेरिव चक्षुयित्वात् , “तमश्छायोद्योतातपाश्चेति" वचनप्रामाण्याच इति, तस्मात्कारणात् सा प्रभा द्रव्यम् । अत एव चन्द्रादिभ्यो भिन्ना द्रव्यान्तरत्वादतश्चन्द्रादिकमतिक्रम्यान्यत्रापि सा गच्छन्ती न विरुध्यते, न तु ज्ञानमात्मानमतिरिच्य, तस्य गुणत्वात् । तथा चाह-न च सा भिन्ना सती अभिन्नानाम्-आत्मनोऽव्यतिरिक्तानां ज्ञानानामवं-खखरूपवत् युक्तिं समुद्वहति, नात्मसमानयोगक्षेमतामापादयतीत्यर्थः, अतश्चन्द्रादिप्रभाज्ञातमुपमामात्रमेवेति स्थितम् ॥ १३३४ ॥ अस्मिन्नेव विषये कथंचित् परमताभ्युपगमेऽपि मतान्तरेणाविरोधं दर्शयति
अन्ने सागारं खलु सत्वगतं पि हु कहंचि जंपंति ।
CALCIALOG
॥४३५॥
Join Education International
For Private
Personel Use Only
www.jainelibrary.org