________________
विसयादिजोगतो च्चिय सियवादसुदिटुपरमत्था ॥ १३३५ ॥ अन्ये आचार्याः साद्वादसुदृष्टपरमार्था-अनेकान्तनीतिनिपुणा भगवतः केवलज्ञानं कथंचित् साकार-विषयगता-15 कारसंगतं तथा सर्वगतमपि-सद्भावतो विश्वगतमपि खलु जल्पन्ति । कथमित्याह-विषयादियोगतः-परिच्छेद्यपरिच्छेदकभावेन विषययोगतोऽशेषवस्तुयोगतश्चेत्यर्थः तत्खलु केवलज्ञानं साकारं, विषयगतस्याकारस्य तस्य तत्परिच्छेद्यतया तत्संबन्धित्वात् । तथा परिच्छेद्यपरिच्छेदकभावत एवाशेषवस्तुयोगतः सद्भावतोऽशेषवस्तुगतमपीति ॥ ॥ १३३५॥ इह च केवलज्ञानलाभे सति केवलज्ञानदर्शनोपयोगचिन्तायां क्रमोपयोगादा(वा)चार्याणामनेकधा विप्रतिपत्तिरतः संक्षेपतो विनेयजनानुग्रहार्थं तामपि प्रदर्शयन्नाह
केई भणंति जुगवं जाणति पासति य केवली णियमा ।
अण्णे एगंतरितं इच्छंति सुतोवदेसेणं ॥ १३३६ ॥ केचन-सिद्धसेनाचार्यादयो भणन्ति-ब्रुवते, किमित्याह-युगपत्-एकस्मिन् काले केवली-केवलज्ञानवान्, नत्वन्यश्छमस्थः जानाति पश्यति चेति, नियमात्-नियमेन । अन्ये पुनराचार्या-जिनभद्रगणिक्षमाश्रमणप्रभृतय इच्छन्ति
Jain Education
a
l
For Private & Personel Use Only
Warjainelibrary.org