________________
धर्मसंग्रहणीवृत्तिः
॥४३६॥
मन्यन्ते, किमित्याह - एकान्तरितं केवली जानाति पश्यति चेति - एकस्मिन् समये जानाति एकस्मिन् समये पश्यतीत्यर्थः । कथमेतदिच्छन्तीत्यत आह-श्रुतोपदेशेन - आगमानुसारेणेत्यर्थः ॥ १३३६ ॥ अपणे ण चैव वीसुं दंसणमिच्छंति जिणवरिंदस्स । जं चि केवलणाणं तं चिय से दंसणं बिंति ॥ १३३७ ॥
अन्ये - केचित् वृद्धाचार्या न चैव ज्ञानात् दर्शनं विष्वग् - पृथगिच्छन्ति 'जिनवरेन्द्रस्य' जिना - उपशान्तरागादिदोषसमूहास्तेषां वराः - प्रधाना निर्मूलत एव क्षीणसकलरागादिदोषोद्भवनिबन्धनमोहनीयकर्माणः क्षीणमोहा इत्यर्थः तेषामिन्द्रो भगवान् उत्पन्न केवलज्ञानस्तस्य न त्वन्यस्य, किंतु यदेव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं ब्रुवते । क्षीणसकलावरणस्य देशज्ञानाभाववत् केवलदर्शन स्याप्यभावात्तस्यापि वस्त्वेक देशभूतसामान्यमात्रग्राहितया | देशज्ञानकल्पत्वादिति भावना ॥ १३३७ ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायात् प्रथमं युगपदुपयोगवादिमतप्रदर्शनायाह
Jain Education International
जं केवलाई सादीअपज्जवसिताई दोवि भणिताई ।
तो बेंति के जुगवं जाणति पासति य सङ्घण्णू ॥ १३३८ ॥
For Private & Personal Use Only
केवलयुगले क्रमयु
गपदेकोपयोगता
॥४३६॥
www.jainelibrary.org