________________
Jain Education In
यत् - यस्मात् द्वे अपि केवलज्ञानदर्शने समये - सिद्धान्ते साधपर्यवसिते भणिते 'तो' ततो ब्रुवते केचन सिद्धसेनाचार्यादयः किमित्याह - युगपद् - एकस्मिन् काले जानाति पश्यति च सर्वज्ञ इति ॥ १३३८ ॥ विपक्षे बाधामाह - sersऽदीणिघणत्तं मिच्छावरणक्खओ त्ति व जिणस्स । इतरेतरावरणता अहवा णिक्कारणावरणं ॥ १३३९ ॥
इतरथा - युगपत् केवलज्ञानदर्शनभावानभ्युपगमे आदिनिधनत्वं - सादिसपर्यवसितत्वं केवलज्ञानदर्शनयोः प्राप्नोति, तथाहि - उत्पत्तिसमयभाविकेवलज्ञानोपयोगानन्तरमेव केवलदर्शनोपयोगसमये केवलज्ञानाभावः पुनस्तदनन्तरमेव केवलज्ञानोपयोगसमये केवलदर्शनाभावः, इति द्वे अपि केवलज्ञानदर्शने सादिसपर्यवसिते । तथा मिथ्या-अलीक | आवरणक्षयः - केवलज्ञानदर्शनावरणक्षयो जिनस्य इति वा प्राप्नोति, न हि युगपदपनीतावरणौ द्वौ प्रदीपौ क्रमेण प्रकाश्यं प्रकाशयतः, तद्यदीहापि केवलज्ञानदर्शने युगपन्निर्मूलतोऽपनीतखखावरणे ततः कथं क्रमेण स्वप्रकाश्यं प्रकाशयतः ?, क्रमेणेति चेदभ्युपगमस्तर्हि मिथ्या तदावरणक्षय इति । तथा इतरेतरावरणता प्राप्नोति, तथाहियदि खावरणे निःशेषतः क्षीणेऽपि अन्यतरभावे अन्यतरभावो नेप्यते तर्हि ते एव परस्परमावरणे जाते, तथा च सति सिद्धान्तपथ क्षतिरिति । अथवा निष्कारणावरणं, यदि हि साकल्येन स्वावरणापगमेऽप्यन्यतरोपयोगकालेऽन्य
For Private & Personal Use Only
jainelibrary.org