Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
न तत्प्रतिबद्धं ज्ञेयं, तत् कथं तत् ज्ञेयं वस्तु ज्ञानमवगच्छेत् ? । तथारूपछायाऽण्वन्यथानुपपत्त्या तदपि ज्ञेयं वस्तु ज्ञानं वेदयते, तेनायमदोष इति चेत्, नैवं, सार्वज्ञस्यापि ज्ञानस्यानुमानत्वप्रसंगादिति यत्किंचिदेतत् ॥१३२७-१३२८॥ इह केचित् “सर्वगतावभास"मित्यादिवचनश्रवणतः सद्भावतो विश्वगतं केवलज्ञानमभिमन्यन्ते, तन्मतमपाचिकीर्षुराह
ण य सवगयं एयं सत्तारूवेण जं अणंतो त।
धम्मरहितो अलोगो कह गच्छति तो तयं झत्ति ? ।। १३२९ ॥ न च, चकारो मतान्तरप्रतिक्षेपसमुच्चयद्योतनार्थः, सत्तारूपेण-सद्भावेन सर्वगतं-सकलवस्तुगतमेतत्-केवलज्ञानम् । कुत इत्याह-असंभवात् , असंभवश्च यत्-यस्मादनन्त एव, तुरवधारणे, धर्मरहितो-धर्मास्तिकायविरहितोऽलोकोऽस्ति, 'ता' तस्मात्कथं तकत्-केवलज्ञानमलोके झटिति गच्छति ?, नैव गच्छतीतिभावः । तत्र गत्युपष्ट-13 म्भकधर्मास्तिकायाभावात् समयमात्रेण च सामस्त्येन गमने तस्यानन्तत्वविरोधाच, अत एव धर्मरहित इति अनन्त इति च विशेषणद्वयमुपादायीति ॥ १३२९ ॥ अत्रैव दूषणान्तरमाह
जं च इयमातधम्मो परिमियमाणो य सो मतो समए । ण य अदत्वा तु गुणा संकमगा चेव जुजंति ॥ १३३० ॥
Jain Education in
For Private Personal Use Only
Dalainelibrary.org

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584