SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ न तत्प्रतिबद्धं ज्ञेयं, तत् कथं तत् ज्ञेयं वस्तु ज्ञानमवगच्छेत् ? । तथारूपछायाऽण्वन्यथानुपपत्त्या तदपि ज्ञेयं वस्तु ज्ञानं वेदयते, तेनायमदोष इति चेत्, नैवं, सार्वज्ञस्यापि ज्ञानस्यानुमानत्वप्रसंगादिति यत्किंचिदेतत् ॥१३२७-१३२८॥ इह केचित् “सर्वगतावभास"मित्यादिवचनश्रवणतः सद्भावतो विश्वगतं केवलज्ञानमभिमन्यन्ते, तन्मतमपाचिकीर्षुराह ण य सवगयं एयं सत्तारूवेण जं अणंतो त। धम्मरहितो अलोगो कह गच्छति तो तयं झत्ति ? ।। १३२९ ॥ न च, चकारो मतान्तरप्रतिक्षेपसमुच्चयद्योतनार्थः, सत्तारूपेण-सद्भावेन सर्वगतं-सकलवस्तुगतमेतत्-केवलज्ञानम् । कुत इत्याह-असंभवात् , असंभवश्च यत्-यस्मादनन्त एव, तुरवधारणे, धर्मरहितो-धर्मास्तिकायविरहितोऽलोकोऽस्ति, 'ता' तस्मात्कथं तकत्-केवलज्ञानमलोके झटिति गच्छति ?, नैव गच्छतीतिभावः । तत्र गत्युपष्ट-13 म्भकधर्मास्तिकायाभावात् समयमात्रेण च सामस्त्येन गमने तस्यानन्तत्वविरोधाच, अत एव धर्मरहित इति अनन्त इति च विशेषणद्वयमुपादायीति ॥ १३२९ ॥ अत्रैव दूषणान्तरमाह जं च इयमातधम्मो परिमियमाणो य सो मतो समए । ण य अदत्वा तु गुणा संकमगा चेव जुजंति ॥ १३३० ॥ Jain Education in For Private Personal Use Only Dalainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy