SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥४३३॥ णाणस्स पिंडभावो सिद्धाण य जोगसंभवाभावा । ते सावरणपसंगा सेसपरिच्छेदविरहा य ॥ १३२८ ॥ न च तस्य - सर्वज्ञज्ञानस्य छायाणुभिरपि छायाणुपक्षेऽपि ज्ञेययोगो - ज्ञेयसंबन्धः संभवति । कुत इत्याहविप्रकर्षात् - देशादिविप्रकर्षभावात् । तथा अणुप्रभृतिषु च - सूक्ष्मद्रव्येषु छायापुद्गलानामभावात् न तैर्योगः । स्थूलेषु हि छायाणुसंबन्धो, न सूक्ष्मेषु तथादर्शनादिति । तथा ज्ञेयानि पुद्गलद्रव्यरूपाण्यप्यनन्तानि ततो युगपत्तत्तत्प्र|तिबद्धच्छायापरमाणु संक्रमाभ्युपगमे तेषां छायाणूनां परस्परं पिण्डभावसंभवात् ज्ञानस्य - परिच्छेदस्य पिण्डभाव एव प्राप्नोति न तु वैविक्तयं, विषयप्रतिच्छायाधीना हि विषयपरिच्छित्तिस्तथाऽभ्युपगमात् विषयप्रतिच्छायाश्चोक्तवत्परस्परं पिंडरूपतामापन्ना इति परिच्छेदस्य वैवित्येनाभावः । तथा सिद्धानां - सकलकर्मविनिर्मुक्तानां ज्ञानस्य न सर्वथा छायाणुभिरपि ज्ञेययोग इति संङ्कः । कुत इत्याह – 'योगसंभवाभावात् तेषामशरीरतया छायाणुभिः सहाकाशस्येव संबन्धविशेषसंभवाभावात्, अन्यथा 'तेसावरणपसंग त्ति' तेषां - सिद्धानामावरणप्रसङ्गात्, तैर्हि छायाशुभिः सहान्योऽन्यव्याप्सिसंबन्धाभ्युपगमे त एवावारका भवेयुस्तथा च सिद्धत्वक्षितिरिति । तथा शेषस्य - छायाणुव्यतिरिक्तस्यासंक्रान्तस्य ज्ञेयस्य परिच्छेदविरहप्रसङ्गात् । ज्ञानं हि संक्रान्तमेव वेदयते, संक्रान्ताश्च ज्ञाने छायाणय एव Jain Education International For Private & Personal Use Only केवलज्ञाने ज्ञेयच्छा याणुसंऋ माभावः ॥४३३॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy