________________
UCROMEMORCHAR
तिविम्बसंभवोऽम्भसि वा निशाकरबिम्बस्येति । परममुनिभिरप्युक्तम्-“सामा उ दिया छाया अभासुरगया निसिं तु कालाभा । सच्चिय भासुरगया सदेहवण्णा मुणेयवा॥१॥जे आयरिसंतत्तो (आरिसस्स अंतो) देहावयवा हवंति संकंता । तेसिं तत्थुवलद्धी पगासजोगा न इयरस्से ॥ २॥ ति"तथा च सति स एवाव्याप्तिदोषो, धर्मास्तिकायादी नामपौगलिकतया तत्प्रतिबद्धच्छायापुद्गलाभावात् । अथ विषयप्रतिच्छायापरिणामयोग्यपुद्गलसंबन्धमन्तरेणापि ज्ञाने विषयप्रतिच्छायाभ्युपगम्यते तत्राह-अभ्युपगमे च पुद्गलयोगं विनापि विषयप्रतिच्छायायाः स एवापद्यते ग्रहणपरिणामलक्षण आकारः, तदुक्तमाचार्येणैवान्यत्र-"तत्प्रतिबद्धवस्तुसंक्रमाभावे च प्रतिबिम्बाभावे अस्मदभ्युपगमाकारसिद्धिरेवेति" ॥ १३२६ ॥ येषामपि मूर्तानां प्रतिच्छायापरिणामयोग्यपुद्गलसंबन्धसंभवः तत्राप्यव्याप्तिदोषमाह
ण य तस्स णेयजोगो छायाणूहि पि विप्पगरिसातो।
अणुपभितिसुऽभावातो गेयाणंतत्तओ चेव ॥ १३२७ ॥ १ श्यामा तु दिवा छाया अभाखरगता निशि तु कालाभा । सैव भास्वरगता स्वदेहवर्णा ज्ञातव्या ॥१॥ ये आदर्शस्यान्तदेहावयवा भवन्ति संक्रान्ताः । तेषां तत्रोपलब्धिः प्रकाशयोगान्नेतरस्य ॥२॥
धर्म, ७३ Jain Education in
For Private Personel Use Only
Ndainelibrary.org