________________
धर्मसंग्रहणीवृत्तिः
॥४३२॥
Jain Education
विम्बसदशविम्बोत्पाद आकारः । कुत इत्याह- तस्य विम्बस्य पुद्गलरूपत्वात् । विम्वं हि चक्षुर्विषय आकार उच्यते, चक्षुपश्च विषयो रूपं, रूपं च स्पर्शाद्यविनाभावि स्पर्शादिमन्तश्च पुद्गलाः, “रूपरसगन्धस्पर्शवन्तः पुद्गला" इति वचनात् । तस्मात् पुद्गलधर्म एव विम्वं तत्संक्रमाद्यभ्युपगमे चानेकदोषप्रसङ्गः तथाहि — धर्मास्तिकायादीनाममूर्त्ततया विम्बं न संभवत्येवेत्यव्याप्तिः येषामपि च घटादीनां विम्बं संभवति तेषामपि ज्ञाने विम्वसंक्रान्ती निराकारताप्रसङ्गः, विषयसदृशविम्बोत्पादाभ्युपगमे च ज्ञानस्यापि विषयस्येव पौगलिकत्वप्रसङ्ग इति ॥ १३२५ ॥ स्यादेतत्, न विषयविम्वसंक्रमरूपो ज्ञाने आकारो मन्यते येन विषयस्य निराकारता प्रसज्येत, नापि विषयसदृशविम्बोत्पादो यतः पौगलिकत्वं ज्ञानस्याप्यापद्येत, किंत्वादर्श इवाङ्गनावदनस्य विषयस्य प्रतिच्छायासंक्रमो ज्ञाने आकार
इत्यत आह
बिंबपडिच्छाया वा पोग्गलजोगं विणा ण संभवति ।
अवगमे य सोचिय आवज्जइ गहणपरिणामो ॥ १३२६ ॥
'विषेत्यादि' वाशब्दोऽपास्यपक्षान्तराभ्युच्चये । बिम्बप्रतिच्छाया पुद्गलयोगं - बिम्बप्रतिच्छाया परिणाम योग्य पुगलसंबन्धं विना-अन्तरेण न संभवति, उक्तं चाचार्येणैवान्यत्र - " न बङ्गनावदनच्छायाणु संक्रमातिरेकेणादर्शकेऽन्यस्तत्प्र
For Private & Personal Use Only
ज्ञानदर्शनयोः सा
काराना
कारते
॥४३२॥
www.jainelibrary.org