Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मसंग्रहणीवृत्तिः
॥४३४ ॥
यच्च-यस्माच्च इदं-केवलज्ञानमात्मधर्मः स चात्मधर्मः समये परिमितमान आत्मस्थो मतः । ननु भवत्येवं परं, किंत्विदमात्मानं विमुच्य सकलमिदं जगलोकालोकात्मकं गत्वाऽवगच्छति, ततः सर्वगतमिति, अत्राह - 'नयेत्यादि ' नच-नैव अद्रव्या- द्रव्यरहिता गुणा-ज्ञानादयः संक्रामकाः - संक्रमणक्रियाविधायिनो युज्यन्ते, तथादर्शनाभावात् । एवः- पूरणे। युज्यन्तां वा तथापि कथमलोके गच्छति ?, तत्र गत्युपष्टम्भकधर्मास्तिकायाभावादित्युक्तम् ॥ १३३० ॥ उपसंहरति
तम्हा सर्व्वपरिच्छेदसत्तिमन्तं तु णायजुत्तमिणं ।
तोचि णीसेसं जाणति उप्पत्तिसमयम्मि ॥ १३३१ ॥ -
तस्मादात्मस्थमेव सत् सर्वपरिच्छेदशक्तिमत् एतत्- केवलज्ञानमितीदं ज्ञानं (न्याय) युक्तम् । अत एव च - सर्वपरिच्छेदशक्तिमत्त्वादेव चोत्पत्तिसमय एव निःशेषं जानाति, अन्यथा समयमात्रेणालोकस्यानन्ततया सामस्त्येन गमनासंभवात् कथमुत्पत्तिसमये निःशेषं जानीयात् ? ॥ १३३१ ॥ अथोच्येत - कथमेतत्प्रत्येतुं शक्यते यथोत्पत्तिसमय एव तथापरिच्छेदशक्तियुक्ततया निःशेषं जानातीति ?, उपपत्त्यभावाद्, अत उपपत्तिमाह
जह कस्सवि सयराहं जायति पंचत्थिकायविण्णाणं ।
Jain Education International
For Private & Personal Use Only
केवलज्ञाने ज्ञेयच्छा
या संक्रमाभावः
॥४३४ ॥
www.jainelibrary.org

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584