Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 550
________________ धर्मसंग्रह- णीवृत्तिः केवलज्ञाने चन्द्रप्रभाया दृष्टान्तमात्रता S ॥४३५॥ चन्द्रादिप्रभाज्ञातं तत् उपमामात्रमेव ज्ञातव्यं, नतु तदृष्टान्तावष्टम्भेन केवलज्ञानस्यापि ताथात्म्यम् ॥ १३३३ ॥ कथं चन्द्रादिप्रभाज्ञातमुपमामात्रमित्यत आह जम्हा पहा वि दवं पोग्गलरूव त्ति चंदमादीणं । ण य भिन्नाभिण्णाणं एवं जुत्तिं समुबहति ॥ १३३४ ॥ यस्मात् प्रभापि चन्द्रादीनां-चन्द्रादित्यग्रहनक्षत्रतारकामणिप्रदीपादीनां संबन्धिनी द्रव्यम् । कुत इत्याह'पौद्गलरूपेति' यत इयं प्रभा पुद्गलरूपा, पुद्गलरूपताऽस्था घटादेरिव चक्षुयित्वात् , “तमश्छायोद्योतातपाश्चेति" वचनप्रामाण्याच इति, तस्मात्कारणात् सा प्रभा द्रव्यम् । अत एव चन्द्रादिभ्यो भिन्ना द्रव्यान्तरत्वादतश्चन्द्रादिकमतिक्रम्यान्यत्रापि सा गच्छन्ती न विरुध्यते, न तु ज्ञानमात्मानमतिरिच्य, तस्य गुणत्वात् । तथा चाह-न च सा भिन्ना सती अभिन्नानाम्-आत्मनोऽव्यतिरिक्तानां ज्ञानानामवं-खखरूपवत् युक्तिं समुद्वहति, नात्मसमानयोगक्षेमतामापादयतीत्यर्थः, अतश्चन्द्रादिप्रभाज्ञातमुपमामात्रमेवेति स्थितम् ॥ १३३४ ॥ अस्मिन्नेव विषये कथंचित् परमताभ्युपगमेऽपि मतान्तरेणाविरोधं दर्शयति अन्ने सागारं खलु सत्वगतं पि हु कहंचि जंपंति । CALCIALOG ॥४३५॥ Join Education International For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584