Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 558
________________ धर्मसंग्रहणीवृत्तिः ॥४३९॥ जुगवमजाणंतो वि हु चउहिँ वि णाणेहिँ जह उ चउनाणी। सर्वज्ञसिभण्णति तहेव अरहा सवण्णू सवदरिसी य ॥ १३४७ ॥ शौक्रमेत रोपयोगिते | यथा मत्यादिभिर्मनःपर्यायान्तैश्चतुर्भिनियुगपदजानन्नपि जीवखाभाव्यादेव युगपदुपयोगाभावात् लब्ध्यपेक्षया चतुज्ञोंनी भण्यते, तथैवाहन्नपि युगपत् केवलज्ञानदर्शनोपयोगाभावेऽपि निःशेषतस्तदावरणक्षयात् शक्त्यपेक्षया सर्वज्ञः सर्वदर्शी चोच्यते इत्यदोषः ॥ १३४७ ॥ पुनरप्यत्र वाद्याह तुल्ले उभयावरणक्खयम्मि पुत्वं समुन्भवो कस्स ? । दुविहुवओगाभावे जिणस्स जुगवन्ति चोदेति ॥ १३४८ ॥ तुल्ये-समाने उभयावरणक्षये-केवलज्ञानदर्शनावरणक्षये पूर्वतर-प्रथमतरमुद्भवः-उत्पादः कस्य भवेत् ?, किं ज्ञानस्य उत दर्शनस्य ? । तत्र यदि ज्ञानस्य स किंनिबन्धन इति वाच्यं १, तदावरणक्षयनिबन्धन इतिचेत् ननु स दर्शनेऽपि तुल्य इति तस्याप्युद्भवप्रसङ्गः, एवं दर्शनपक्षेऽपि वाच्यम् । अतःप्रथमसमये वावरणक्षयेऽपि अन्यतरस्याभावेऽन्यतरस्थाप्यभाव एव विपर्ययो वा प्राप्नोतीति युगपद्द्विविधोपयोगाभावाभ्युपगमे जिनस्य वादी चोदयतीति ॥ १३४८॥18 सिद्धान्तवाद्याह ॥४३९॥ Jain Education For Private Personal use only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584