Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 552
________________ धर्मसंग्रहणीवृत्तिः ॥४३६॥ मन्यन्ते, किमित्याह - एकान्तरितं केवली जानाति पश्यति चेति - एकस्मिन् समये जानाति एकस्मिन् समये पश्यतीत्यर्थः । कथमेतदिच्छन्तीत्यत आह-श्रुतोपदेशेन - आगमानुसारेणेत्यर्थः ॥ १३३६ ॥ अपणे ण चैव वीसुं दंसणमिच्छंति जिणवरिंदस्स । जं चि केवलणाणं तं चिय से दंसणं बिंति ॥ १३३७ ॥ अन्ये - केचित् वृद्धाचार्या न चैव ज्ञानात् दर्शनं विष्वग् - पृथगिच्छन्ति 'जिनवरेन्द्रस्य' जिना - उपशान्तरागादिदोषसमूहास्तेषां वराः - प्रधाना निर्मूलत एव क्षीणसकलरागादिदोषोद्भवनिबन्धनमोहनीयकर्माणः क्षीणमोहा इत्यर्थः तेषामिन्द्रो भगवान् उत्पन्न केवलज्ञानस्तस्य न त्वन्यस्य, किंतु यदेव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं ब्रुवते । क्षीणसकलावरणस्य देशज्ञानाभाववत् केवलदर्शन स्याप्यभावात्तस्यापि वस्त्वेक देशभूतसामान्यमात्रग्राहितया | देशज्ञानकल्पत्वादिति भावना ॥ १३३७ ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायात् प्रथमं युगपदुपयोगवादिमतप्रदर्शनायाह Jain Education International जं केवलाई सादीअपज्जवसिताई दोवि भणिताई । तो बेंति के जुगवं जाणति पासति य सङ्घण्णू ॥ १३३८ ॥ For Private & Personal Use Only केवलयुगले क्रमयु गपदेकोपयोगता ॥४३६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584