Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 542
________________ धर्मसंग्रहणीवृत्तिः ॥४३॥ सामर्थ्य, प्रकर्षश्च भावनायाः सामर्थ्य, तस्मात् भावनाबलात् स्पष्टं तन्मनोविज्ञानं भवति । 'भयादाविवे'त्यनेन दृष्टा सर्वज्ञन्तेन भावनानिमित्तकं स्पष्टाभत्वं प्रसिद्धं दर्शयति । तच्च भ्रान्तमपि भवति, तथाहि-असत्यविकल्परूपमपि मनो- लासिद्धिः विज्ञानं भाव्यमानं स्पष्टप्रतिभासं भवत्येव, नच तत् प्रत्यक्षमतस्तन्निवृत्त्यर्थमाह-अविसंवादि-विसंवादरहितं, तत्प्रत्यक्षमकल्पकं-निर्विकल्पकम् , अकल्पकता च स्फुटाभत्वेन तन्मतापेक्षया द्रष्टव्या, एतदुक्तं भवति-भागवतमपि ज्ञानं भावनाप्रकर्षवशाद्विशदाभं प्रमाणपरिशुद्धविषयतया चाभ्रान्तमतः प्रत्यक्षमिति । कथं पुनर्भावनावलतो मनोविज्ञानस्य स्पष्टाभता भवतीयेतदाशङ्कानिवृत्त्यर्थं यदुक्तं-'भयादाविवेति' तयाख्यानायैव तैरुक्तम्-"कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः। अभूतानपि पश्यन्ति, पुरतोऽवस्थितानिव ॥१॥ यथाविप्लवमावेगप्रतिपत्तिप्रदर्शनात् । परोक्षगतिसंज्ञायां, तथा वृत्तरदर्शनात् ॥२॥ तस्माद्भूतमभूतं वा, यद् यदेवातिभाव्यते। भावनापरिनिष्पत्ती, तत् स्फुटाकल्पधीफलम् ॥३॥” इति, अमीपां चानुष्टुभामयं संक्षेपार्थः-चौरखमोनाम यत्र खप्ने चौरानभिमुखमापततः पश्यति, आदिशब्दस्तदन्यैवंविधप्रकारसूचनार्थः, तैः कामादिभिरुपप्लुता अभूतानपि-अविद्यमानानपि पुरतोऽवस्थितानिव प्रियतमादीन् भावान् पश्यन्ति । कथं पुनरेतदवसीयते पुरतोऽवस्थितानिव तांस्ते पश्यन्तीत्यत आह-'यथेत्यादि ||४३१॥ | आवेगः-संभ्रमः कायावस्थाविशेषो रोमाञ्चलक्षणः कम्पलक्षणो वा, प्रतिपत्तिः-दर्शनानुरूपमनुष्ठानं कान्ताकण्ठाकर्षणादि कस्को वेत्याभाषणं, साहंकारश्च खगादिपरिग्रहः, अनयोर्यथाविप्लवं-कामादिविप्लवानतिक्रमण दर्शनात् । Jain Education inhalalal For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584