________________
धर्मसंग्रहणीवृत्तिः
॥४३॥
सामर्थ्य, प्रकर्षश्च भावनायाः सामर्थ्य, तस्मात् भावनाबलात् स्पष्टं तन्मनोविज्ञानं भवति । 'भयादाविवे'त्यनेन दृष्टा
सर्वज्ञन्तेन भावनानिमित्तकं स्पष्टाभत्वं प्रसिद्धं दर्शयति । तच्च भ्रान्तमपि भवति, तथाहि-असत्यविकल्परूपमपि मनो- लासिद्धिः विज्ञानं भाव्यमानं स्पष्टप्रतिभासं भवत्येव, नच तत् प्रत्यक्षमतस्तन्निवृत्त्यर्थमाह-अविसंवादि-विसंवादरहितं, तत्प्रत्यक्षमकल्पकं-निर्विकल्पकम् , अकल्पकता च स्फुटाभत्वेन तन्मतापेक्षया द्रष्टव्या, एतदुक्तं भवति-भागवतमपि ज्ञानं भावनाप्रकर्षवशाद्विशदाभं प्रमाणपरिशुद्धविषयतया चाभ्रान्तमतः प्रत्यक्षमिति । कथं पुनर्भावनावलतो मनोविज्ञानस्य स्पष्टाभता भवतीयेतदाशङ्कानिवृत्त्यर्थं यदुक्तं-'भयादाविवेति' तयाख्यानायैव तैरुक्तम्-"कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः। अभूतानपि पश्यन्ति, पुरतोऽवस्थितानिव ॥१॥ यथाविप्लवमावेगप्रतिपत्तिप्रदर्शनात् । परोक्षगतिसंज्ञायां, तथा वृत्तरदर्शनात् ॥२॥ तस्माद्भूतमभूतं वा, यद् यदेवातिभाव्यते। भावनापरिनिष्पत्ती, तत् स्फुटाकल्पधीफलम् ॥३॥” इति, अमीपां चानुष्टुभामयं संक्षेपार्थः-चौरखमोनाम यत्र खप्ने चौरानभिमुखमापततः पश्यति, आदिशब्दस्तदन्यैवंविधप्रकारसूचनार्थः, तैः कामादिभिरुपप्लुता अभूतानपि-अविद्यमानानपि पुरतोऽवस्थितानिव प्रियतमादीन् भावान् पश्यन्ति । कथं पुनरेतदवसीयते पुरतोऽवस्थितानिव तांस्ते पश्यन्तीत्यत आह-'यथेत्यादि ||४३१॥ | आवेगः-संभ्रमः कायावस्थाविशेषो रोमाञ्चलक्षणः कम्पलक्षणो वा, प्रतिपत्तिः-दर्शनानुरूपमनुष्ठानं कान्ताकण्ठाकर्षणादि कस्को वेत्याभाषणं, साहंकारश्च खगादिपरिग्रहः, अनयोर्यथाविप्लवं-कामादिविप्लवानतिक्रमण दर्शनात् ।
Jain Education inhalalal
For Private Personal Use Only
www.jainelibrary.org