SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Jain Education यस्मादिह-जगति कोऽपि प्रतिभाज्ञानी प्रत्यक्षेणापि आस्तां परोक्षज्ञानेनेत्यपिशब्दार्थः, मुणति - जानाति, घटे दृष्टे || सति पिण्डकपालादीन् पर्यायान्, आदिशब्दात् यथाक्रममतीतानागताः शिवकशर्करादयः पर्याया गृह्यन्ते, न च तत्तथापरिच्छिन्ददपि परोक्षं युज्यते, तथाऽनभ्युपगमात् । 'ता' तस्मादेतदपि केवलज्ञानं सकलातीतानागतपर्यायाणामविद्यमानानामपि ग्राहकं स्फुटाभमेव संभवतीति न कश्चिद्दोषः ॥ १३२३ ॥ अत्रैव मतान्तरं प्रतिपादयन्नाह - तु असं सुविणादिसु जह फुडाभमेतं ति । तोचि पञ्चखं भांति तं वीयरागस्स ॥ १३२४ ॥ अन्ये त्वाचार्या मायासूनवीया यथा स्वप्नादिष्वादिशब्दात्का मशोकाद्यवस्थापरिग्रहः एतत् -ज्ञानं विषयासत्त्वेऽपि स्फुटाभमितिः- एवमसत्खपि अतीतानागतेषु विषयेषु वीतरागस्य तत् - केवलज्ञानं स्फुटाभं भणन्ति, अत एव च स्फुटाभत्वादेव च तत् - प्रत्यक्षं भणन्ति - प्रतिपादयन्ति, प्रत्यक्षशब्दस्य हि प्रवृत्तिनिमित्तमर्थसाक्षात्कारित्वं यथा गोशब्दस्य खुरककुदादिमत्त्वं तच्चार्थसाक्षात्कारित्वं वीतरागज्ञानेऽप्यविशिष्टं ततः कथमिव न तत् प्रत्यक्षं भवेदिति । तथा च तैरुक्तम् - " भावनाबलतः स्पष्टं, भयादाविव भासते । यत्स्पष्टमविसंवादि, तत्प्रत्यक्षमकल्पकम् ॥ १ ॥” इति, अस्थायमर्थःस्पष्टं स्पष्टग्राह्याभासं यन्मनोविज्ञानं तत्प्रत्यक्षम् कुतस्तस्य स्पष्टाभत्वमित्यत आह- 'भावनाबलतः ' भावनायां बलं - For Private & Personal Use Only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy