Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-SERIALSCREE
यथाविप्लवमावेगप्रतिपत्तिदर्शनेऽपि कथं प्रत्यक्षवत् स्पष्टामं तेषां दर्शनमित्याह-परोक्षस्य गतिः-ज्ञानं तस्याः संज्ञाशनिश्चयस्तस्यां सत्यां तेन प्रकारेण वृत्तेः-प्रवृत्तेरावेगादिरूपाया अदर्शनातू, तस्मात् भूतमभूतं वा यत् यदेवातिशयेन भाव्यते तत भावनाप्रकर्षे सति स्फुटाकल्पकधीफलं-स्फुटाया अकल्पिकाया धियो हेतुर्भवतीत्यर्थः। तत्र यत असत्यं तत् पूर्वविज्ञानारूढं तस्मादव्यतिरिक्तमुत्तरज्ञानस्य हेतुर्भवति, यत् पुनः सत् तत् भाव्यमानं खभावेनैव हेतुर्भवति, न ज्ञानरूढतयेति कृतं प्रसङ्गेन ॥१३२४॥ तदेवं केवलज्ञानं यथोपपन्नं भवति तथाऽभिधाय सांप्रतं साकारानाकारताचिन्तया तदभिधातुमुपक्रमते
तं पण विसयागारं सो य इमस्सेव गहणपरिणामो।
णतु बिंबसंकमादी पोग्गलरूवत्ततो तस्स ॥ १३२५ ॥ तत-केवलज्ञानं पुनःशब्दो वक्तव्यतान्तरप्रदर्शनार्थः, विषयाकारं-विषयस्य परिच्छेदकतया संबन्धी आकारो यस्य तद्विषयाकारम् । कः पुनरस्याकार इति चेत् अत आह-स चाकारोऽस्यैव ज्ञानस्य विवक्षितविषयगोचरो। ग्रहणपरिणामः, अन्यथा तदभावाविशेषतः सर्वस्य सर्वार्थपरिच्छित्तिप्रसक्त्या सर्वज्ञत्वप्रसङ्गात् । अन्ये त्याहुः-"विषय-17 बिम्बसंक्रमादिराकार" इति, तन्मतं दूपयितुमाह-'न उ' इत्यादि नतु बिम्बसंक्रमादि-बिम्बसंक्रम आदिशब्दात्
Jain Educatio
n
al
For Private & Personel Use Only
Tww.jainelibrary.org

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584