Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 537
________________ Jain Education तेषामतीतादीनां भावानामभाव इति यदुक्तं तन्मृषैव । तुरेवकारार्थी भिन्नक्रमश्च । कथं मृषेत्यत आह- 'वत्थु | इत्यादि' यतो- यस्मात् वस्तु द्रव्यपर्यायस्वभावम् - अनुवृत्तिव्यावृत्तिस्वरूपं, तयोर्द्रव्यपर्याययोर्मिथः - परस्परं भेदाभेदौ, अन्योऽन्यव्याप्तिभावात्, अन्यथाऽत्यन्तवैलक्षण्यापत्तेरैक्यापत्तेर्वा वस्तुत्वायोगात्, एकान्तनित्यस्यानित्यस्य वा सर्वथा | विज्ञानादिकार्यायोगात्, यथोक्तं प्राक् । ततश्च तदतीतादिकं वस्तु वर्त्तमानेऽपि वर्त्तमानकालेऽपि कथंचिदस्ति, ततो न कश्चिद्दोषः ॥ १३१६ ॥ दोषाभावमेव भावयन्नाह - सयलातीतावत्थाजपणं पारंपरेण जमिदाणिं । एसाण य एवं चि जणगं खलु होइ नातवं ॥ १३१७ ॥ यत् - यस्मात् इदानीं वर्त्तमानं वस्तु पारंपर्येण सकलातीतावस्थाजन्यं, तथा एवमेव-उक्तप्रकारेण पारंपर्येणेतियावत् सर्वासामपि एण्यतीनामवस्थानां जनकं खलु भवति ज्ञातव्यम् ॥ १३१७ ॥ ततश्च, ती ती सत्तीए (ति) पावितं जं च पाविहिति सा सा । तं तं तओ वियाण आवरणाभावतो चेव ॥ १३१८ ॥ तया तया शक्त्याऽवस्थारूपया पारंपर्येण यत् खल्विदानीं वर्त्तमानं वस्तु प्रापितं - ढौकितं यच कर्म्मतापन्नमिदा For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584