________________
Jain Education
तेषामतीतादीनां भावानामभाव इति यदुक्तं तन्मृषैव । तुरेवकारार्थी भिन्नक्रमश्च । कथं मृषेत्यत आह- 'वत्थु | इत्यादि' यतो- यस्मात् वस्तु द्रव्यपर्यायस्वभावम् - अनुवृत्तिव्यावृत्तिस्वरूपं, तयोर्द्रव्यपर्याययोर्मिथः - परस्परं भेदाभेदौ, अन्योऽन्यव्याप्तिभावात्, अन्यथाऽत्यन्तवैलक्षण्यापत्तेरैक्यापत्तेर्वा वस्तुत्वायोगात्, एकान्तनित्यस्यानित्यस्य वा सर्वथा | विज्ञानादिकार्यायोगात्, यथोक्तं प्राक् । ततश्च तदतीतादिकं वस्तु वर्त्तमानेऽपि वर्त्तमानकालेऽपि कथंचिदस्ति, ततो न कश्चिद्दोषः ॥ १३१६ ॥ दोषाभावमेव भावयन्नाह -
सयलातीतावत्थाजपणं पारंपरेण जमिदाणिं ।
एसाण य एवं चि जणगं खलु होइ नातवं ॥ १३१७ ॥
यत् - यस्मात् इदानीं वर्त्तमानं वस्तु पारंपर्येण सकलातीतावस्थाजन्यं, तथा एवमेव-उक्तप्रकारेण पारंपर्येणेतियावत् सर्वासामपि एण्यतीनामवस्थानां जनकं खलु भवति ज्ञातव्यम् ॥ १३१७ ॥ ततश्च,
ती ती सत्तीए (ति) पावितं जं च पाविहिति सा सा । तं तं तओ वियाण आवरणाभावतो चेव ॥ १३१८ ॥
तया तया शक्त्याऽवस्थारूपया पारंपर्येण यत् खल्विदानीं वर्त्तमानं वस्तु प्रापितं - ढौकितं यच कर्म्मतापन्नमिदा
For Private & Personal Use Only
jainelibrary.org