________________
सर्वन
धर्मसंग्रहणीवृत्तिः
॥४२८॥
उवदेसतो पयहा पारंपरए ण तु विसेसो ॥ १३१४ ॥ एवम्-अनन्धोपदेशात् प्रवृत्तान्ध इव इमेऽपि वैद्यादिका आदिशब्दात् ज्योतिषादय इह-जगति सम्यग्ज्ञानिपूर्वतःसम्यग्ज्ञानी-अतीन्द्रियार्थदर्शी पूर्व-प्रथमतः प्रवर्तकतया कारणं यस्योपदेशस्य तस्मादुपदेशात् प्रवृत्ताः, तत ऊर्द्ध परंपरके तु न विशेषः, सर्वेषामपि रागादिदोषसचिवतयाऽतीन्द्रियार्थदर्शनं प्रति तत्त्वतोऽन्धतुल्यत्वात् , मूलोपदेशानुसारेणैव प्रवृत्तेः ॥ १३१४ ॥ पुनरप्यत्र पर आह
__सवं तिकालजुत्तं तीयादिसु कह य तस्स पच्चक्खं ? ।
तेसिमभावातो चिय भावे तीतादिमो किह णु ॥ ? १३१५॥ सर्व वस्त त्रिकालयुक्तं, ततश्च कथं तस्य भगवतः सर्वज्ञस्य प्रत्यक्षमतीतादिषु-अतीतानागतेषु भावेषु प्रवर्तते ?, नैव प्रवर्तत इतिभावः । कुतः इत्याह-तेषाम्-अतीतादीनां विवक्षितकालेऽभावात्-असत्त्वात् । भावे वा कथं नु ते भावा अतीतादयो भवेयुः ?, किंतु वर्तमाना एव, तदन्यवर्तमानभाववत् ॥ १३१५ ॥ अत्राचार्य आह
तेसिमभावो तु मुसा वत्थु जतो दवपज्जवसहावं । भेदाभेदो य मिहो अत्थि य तं वत्तमाणे वि ॥ १३१६ ॥
॥४२८॥
Jain Education
For Private & Personel Use Only
Inaw.jainelibrary.org