SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ 'वैद्यकज्योतिषशास्त्रमपि' वैद्यकशास्त्राणि ज्योतिषशास्त्राणि च अतीन्द्रियेषु-इन्द्रियातिक्रान्तेषु अभिधेयेषु अतीन्द्रियार्थज्ञायकविरहे-सर्वज्ञाभावे इतियावत् कथं नु संगत-संगतानि निश्चितविवक्षिताभिधेयानि युज्यन्ते इति वक्तव्यं ?, नैव कथंचनापि युज्यन्ते इति भावः, 'संगतंपीति' अपिभिन्नक्रमः स चादावेव योजितः ॥ १३०८॥ अत्र परस्याभिप्रायमाह वुड्डपरंपरतो चिय अह तं आदीऍ णिच्छियं केण ? । अंधाण परंपरओ णहि रूवे मुणइ दीहो वि ॥ १३०९ ॥ अथ वृद्धपरंपरात एव वैद्यकादिशास्त्राणामतीन्द्रियेष्वर्थेषु संगतत्वमिति प्रतिपद्येथाः, अत्र आचार्य आह-तं आदीए' इत्यादि, तत्-वैद्यकादिशास्त्रमादौ-प्रथमतः केनातीन्द्रियेषु अर्थेषु निश्चितं ?, नैव केनचित् , सर्वस्यापि रागादिदोषपरीततया अतीन्द्रियार्थदर्शनलक्षणलोचनाभावेनान्धतुल्यत्वात् । एतदेव प्रतिवस्तूपमया स्पष्टयति-'अंधेत्यादि' न ह्यन्धानां परंपरको दीर्घोऽपि 'रूपे' रूपविषये किमपि 'मुणति' जानाति । “ज्ञो जाणमुणाविति" प्राकृतसूत्रतो ज्ञाधातोर्मुणादेशः। अत्रान्धतुल्याः सर्वेऽपि पुरुषास्तेषांरागादिमत्तयाऽतीन्द्रियार्थदर्शनलक्षणलोचनाभावात् , रूपकल्पा धर्म, ७२ Jain Education indTObi For Private Personel Use Only POjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy