________________
धर्म संग्रहणीवृत्तिः
॥४२६ ॥
ता अणिवास्थिससे सिद्धो सवण्णुभावोऽवि ॥ १३०७ ॥
एवमुक्तप्रकारेण प्रतिषेधकमपि मानं-प्रमाणं प्रमाणाभासमेव दर्शितम् । तुरेवकारार्थः । 'ता' तस्मादनिवारितप्रसरः सिद्ध एव सर्वज्ञभाव इति । अपिवकारार्थो भिन्नक्रमश्च स यथास्थानं योजित इति । स्थादेतत् कथमनिवारितप्रसरः सिद्धः सर्वज्ञभावो यावता यथा तत्प्रतिषेधकं प्रमाणं न विद्यते तथा तत्साधकमपीति, तदयुक्तम्, विकल्पानुपपत्तेः, तथाहि - तत्साधकं प्रमाणं किं भवत एव न विद्यते ? उताहो सर्वप्रमातृणाम् ?, तद्यदि भवत एवेति तर्हि सिद्धसाध्यता, भगवतः परोक्षत्वात्, भक्तश्च सम्यक् प्रवचनार्थानधिगतेः । अथ सर्वप्रमातृणामिति पक्षः, सोऽप्ययुक्तः, तचेतसामप्रत्यक्षत्वात् तत्प्रत्यक्षतामन्तरेण तेषां तदभावनिश्चयानुपपत्तेः । तत्प्रत्यक्षताभ्युपगमे च तस्यैव सकलप्रमातृचेतः प्रत्यक्षतः सर्वज्ञत्वमिति न तत्साधकप्रमाणाभावः ॥ १३०७ ॥ ननु किमनेन वाग्जालेन ?, एवं हि प्रधानेश्वरादीनामपि प्रतिषेधानुपपत्तेः, तस्माद्यत्किंचिदेतत्, तदप्ययुक्तम्, तेषां युक्तिभिरनुपपद्यमानत्वात्, अतीन्द्रियोपलम्भकपुरुषवचनतस्तत्प्रतिषेधोपपत्तेश्थ, अन्यच्च -
Jain Education International
वेज्जगजोतिससत्थं अतिंदियत्सुसंगतंऽपि कहं । जुज्जति ? अतिंदियत्थष्णुपुरुसविरहम्मि वत्तवं ॥। १३०८ ॥
For Private & Personal Use Only
सर्वज्ञसिद्धिः
४२६ ॥
www.jainelibrary.org