SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Jain Education In वचनलक्षणं कार्यं जनयतीति ? ॥ १२९० ॥ ननु यदि स भगवान् वीतरागः सर्वज्ञश्च ततस्तस्यैकान्तेन कृतकृत्य तया | प्रयोजनाभावात्तद्वत्तया प्रेक्षावतां व्याप्तो व्याहारो न युक्तो, व्याहरन्ति (ति) चेदवश्यं प्रयोजनापेक्षा, सा च राग इति कथं व्याहारान्न रागादिमत्त्वानुमानमित्यत आह जंपति य वीयरागो य भवोवग्गाहिकम्मुणो उदया । तेणेव पगारेणं वेदिज्जति जं तयं कम्मं ॥ १२९१ ॥ जल्पति च वीतरागोऽपि सन् भगवान् भवोपग्राहिकर्मणः - तीर्थ करनामसंज्ञितस्योदयात्, यत् - यस्मात्तत्-भवो - | पग्राहि कर्म तेनैवाग्लान्या यथावस्थितवस्तुदेशनालक्षणेन प्रकारेण वेद्यते - अनुभूयानुभूय क्षयं नीयते, यदुक्तमार्षे - " तं च कहं वेइज्जइ अगिलाए धम्मदेसणाईहिं"ति । ततो भवोपग्राहि कर्मानुगततया कृतकृत्यताऽभावात्तत्क्षयार्थं शुद्ध| देशनाप्रवृत्तिरविरुद्धेति । स्यादेतद्, न रागादिकार्यत्वाद्वचनाद्रागादिमत्त्वानुमानमपि तु वक्तर्यात्मनि रागादेर्वक्तृत्वसहचारिणो दर्शनात्, अन्यत्रापि वक्तृत्वोपलम्भात् सहचारिणो रागादेरनुमानमिति, यद्येवं तर्हि आत्मनि गौरत्वसहच - रितस्य वक्तृत्वस्य दर्शनादन्यत्रापि कृष्णादौ वक्तरि गौरत्वमनुमातव्यम् । अथ न येन केनचित्सह खात्मनि दृष्टं वक्तृत्वं १ तच्च कथं वेद्यते अग्लान्या धर्मदेशनादिभिरिति । For Private & Personal Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy