SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणीवृत्तिः ॥४२१॥ Jain Education In यत एव भगवतः केवलज्ञानपूर्विका विवक्षा अत एव न सा सततम् - अनवरतं प्रवर्त्तते, तथा संगतार्यापि युक्त्युपपन्नाभिधेयार्थापि, सततं पात्रे च-देशनायोग्येऽवन्ध्यफला-न वीजाधानादिफलविकला, तथा परिमितरूपा च पुरुषापेक्षया सा भवति, तथाहि - भगवान् सर्वज्ञो भगवतो गणधरान् सकलप्रज्ञातिशय निधानभूतान् आश्रित्य " उप्पने इति वे ( ०इ वेत्या० ) त्यादि" पदत्रयीमेवोपदिशति तेषां तावन्मात्रेणैव विवक्षितार्थावगमसिद्धेः अन्येषां तु यथायोग्यं तां प्रपञ्चेन, न तु योग्यतातिरिक्तं किमपि भाषत इति ॥ १२८९ ॥ इदानीं परमतं दूषयितुमन्यथा शङ्कमान आह रागादिजोग्गताजण्णमह (महेत्थ ) तु वयणं ण संगतमिदपि । तज्जोग्गता ण अण्णं जणेति पुवावर विरोहो ॥ १२९० ॥ अथेत्थमाचक्षीथाः- वचनं रागादियोग्यताजन्यं, यतो रागादियोग्य एव पुरुषो लोके वक्ता दृश्यते इति । अत्राह - न संगतमिदमध्यनन्तरोक्तम् । कुत इत्याह- यस्मात्तद्योग्यता - रागादियोग्यता नान्यत् - रागादिलक्षण कार्यातिरेकेण कार्यान्तरं जनयति, यद्विषया हि या योग्यता सा तदेव कार्य कर्तुमीष्टे न कार्यान्तरं ततो मिथ्यात्वाकुलित चेतसः परस्य खल्वेप पूर्वापरविरोधः, तथाहि यदि सा रागादियोग्यता तर्हि रागादिलक्षणमेव कार्ये जनयतु कथमन्यत् For Private & Personal Use Only सर्वज्ञसिद्धिः ॥४२१॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy