________________
Jain Education
परिसुद्धा एसा रागोऽवि वदंति समयसारण्णू । विहिताणुट्टाणपरस्त जह तु सज्झायझाणेसु ॥ १२८७ ॥
न चाप्येषा-विवक्षा परिशुद्धा सती रागः, अपि भिन्नक्रमः स च यथास्थानं योजित इति वदन्ति समयसारज्ञाः| सिद्धान्तोपनिपत्परिज्ञानकुशलाः, यथा विहितानुष्ठानपरस्य स्वाध्यायध्यानेषु वर्त्तमानस्य साधोः, तस्माद्भवन्त्यपि भगवति विवक्षा न दोषाय, परिशुद्धखरूपायास्तस्या रागत्वायोगात् ॥ १२८७ ॥ अपि च
organ विवक्खा णय केवलिणो मणस्सऽभावातो ।
अवि णाणपुगि चिय चेट्ठा सा होइ णायवा ॥ १२८८ ॥
न च केवलिनः - सर्वज्ञस्य मनः पूर्विका - भावमनः कारणिका विवक्षा, कुत इत्याह- मनसोऽभावात् - भावमनसोऽभावात् अपि तु ज्ञानपूर्विकैव केवलज्ञान पूर्विकैव । ततः सा विवक्षा चेष्टा - आत्मपरिस्पन्दरूपा भवति ज्ञातव्या, न त्विच्छा, मनसा हि पर्यालोचनमिच्छा लोकेऽभिधीयते इति ।। १२८८ ॥
एतो चि सा सततं ण पवत्तति तह य संगतत्थाऽवि । पत्तम्मि अवंझफला परिमियरूवा य सा होति ॥ १२८९ ॥
For Private & Personal Use Only
w.jainelibrary.org