________________
धर्मसंग्रहणीवृत्तिः
॥४२०॥
Jain Education
दिपरिचाणं अgिपरिकपणा एसा ॥ १२८६ ॥
तत्रापि च-खापाद्यवस्थासु विगतचित्ततायां चापि अन्तरालेऽस्ति काचन सुक्ष्मा विवक्षा । किमत्र प्रमाणमिति चेत्, आह-कार्यगम्या वचनलक्षणकार्यानुमानमत्र प्रमाणमिति भावः । न हि वचनस्य विवक्षामन्तरेणान्यत् कार - णमस्ति, तत्कथं तामन्तरेणापि तद्भवेदिति । अत्राह - 'दिट्ठेत्यादि' यदि हि तदानीमपि सा विवक्षा भवेत्ततस्तस्याः स्वसंविदितखभावत्वात् तदानीमप्यनुभवो भवेत्, यथा ताखेव खापाद्यवस्थासु कदाचिद्विवक्षापूर्वोक्तौ । तथा च दृश्यन्ते केचित्प्रबुद्धावस्थायां वक्तारो 'यथा-' इत्थमित्थं निशि खप्ने तेन सह तं तं तदभिप्रायमनुसृत्य जल्पितमिति' । अन्यैरपि उक्तम् - " न चेमाः कल्पना अप्रतिसंविदिता एवोदयन्ते व्ययन्ते वा येन सत्योऽपि अनुपलक्षिताः स्युरिति” । तस्मात्स्वसंवेदनप्रमाणदृष्टः खापाद्यवस्थासु कदाचिद्विवक्षाविरहः । यदप्युक्तम् - कार्यगम्येति तदप्यसमीचीनं, विवक्षाकार्यत्वेनैव वचनस्याप्रसिद्धेस्तथाविधात्मप्रयत्न भाषाद्रव्यमात्रहेतुकत्वात् । ततो दृष्टस्य - अनुभूतस्य विवक्षाविरहस्य परित्यागेनादृष्टस्य-विवक्षासद्भावस्य परिकल्पना एषा - पूर्वोक्ता सा च निविडजडिमावष्टब्धान्तःकरणतासूचिका । आह च - " दृष्टमर्थं विधूयान्यददृष्टं कल्पयन्ति ये । मूढाः पिण्डं परित्यज्य, ते लिहन्ति करं वृथा ॥” इति ॥ १२८६ ॥ अभ्युपगम्यापि भगवति विवक्षां दोषाभावमाह-
For Private & Personal Use Only
सर्वज्ञसिद्धिः
॥४२०॥
w.jainelibrary.org