________________
Jain Education
अतु विक्खाऍ विणा ण जंपई कोइ सा य इच्छति । रागो य तती तम्हा वयणं रागादिपुत्रं तु ॥ १२८४ ॥
अथ न विवक्षया विना कोऽपि जल्पति, तथा दर्शनाभावात्, सा च विवक्षा इच्छा, वक्तुमिच्छा विवक्षेति व्युत्पत्तेः, 'तई' इति सका च इच्छा रागस्तस्माद्वचनं रागादिपूर्वकमेव । तुरवधारणे । तथा च सत्यसौ वक्ता असर्वज्ञः, सति रागादी सर्वज्ञत्वानभ्युपगमात् ॥ १२८४ ॥ अत्राह -
सुविणादिसु ती विणा जंपति कोई तहा विचित्तो य । अन्न जंपिय दीसह अन्नं च जंपतो ॥ १२८५ ॥
स्वप्नादिषु आदिशब्दान्मदमूर्च्छादिषु च अवस्थासु तया-विवक्षया विनापि जल्पति- जल्पन् दृश्यते, तथा विचित्तश्चविगतचित्तश्च अन्यमनस्क इतियावत् अन्यस्मिन् - घटादौ प्रजल्पितव्ये अन्यत्-पटादिकं प्रजल्पन् दृश्यते तन्न वचनं विवक्षाऽविनाभावि ततश्च कथं रागादिपूर्वकमेव तद्भवेदिति १ ॥ १२८५ ॥ अत्र परस्याभिप्रायमाहतत्थवि य अत्थि सुहुमा अवंतराले य कज्जगम्मत्ति ।
tional
For Private & Personal Use Only
www.jainelibrary.org