________________
धर्मसंग्रहणीवृत्तिः
सिद्धिः
॥४१९॥
एवं पुरिसत्तं पि हु जइ वि ण विण्णाणपगरिससमेतं ।
दिटुं तहऽवऽविरोहा तेण समेतं पि संभवइ ॥ १२८२ ॥ | एवं च सत्त्ववत् पुरुषत्वमपि यद्यपि न क्वचिदिदानी ज्ञानप्रकर्षसमेतं दृष्टं, तथाप्यविरोधात्-विरोधाभावात् | तेनापि-ज्ञानप्रकर्षण समेतं संभवतीति न कश्चिद्दोषः ॥ १२८२ ॥ तदेवं पुरुषत्वस्य ज्ञानप्रकर्षण सहाविरोधमुपदर्य सांप्रतं वक्तृत्वस्य दर्शयन्नाह
वयणं पि ण रागादीणमेव कजं ति तेहिं रहितो वि ।
पगतं पयंपइ जतो कोई मज्झत्थभावेण ॥ १२८३ ॥ वचनमपि न रागादीनामेवादिशब्दाद्वेषादिपरिग्रहः कार्य येन तद्भावाद्रागादिमत्त्वानुमितिस्ततोऽप्यसर्वज्ञत्वं सिवेत्। कथं न रागादीनामेव कार्यमित्याह-यतो-यस्मात्तै-रागादिभिर्दोषैरहितोऽपि कोऽपि पुरुषो मध्यस्थभावेन प्रकृतंप्रकरणानुरोधि किमपि प्रजल्पति-विषयेण विषयिणो लक्षणात् प्रजल्पन् दृश्यते, ततो वक्तृत्वस्यापि ज्ञानप्रकर्षण सहाविरोध इति ॥ १२८३॥ अत्र परस्याभिप्रायं प्रचिकटयिषुराह
॥४१९॥
Jain Education Inter
For Private & Personel Use Only
ainelibrary.org