SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Jain Education In ज्ञानप्रकर्षेण सह पुरुषत्वादीनां कश्चिदपि विरोधोऽस्ति येन पुरुषत्वादीनामसर्वज्ञत्वेन सह प्रतिबन्धः सिद्ध्येत्, ततो विपक्षेण सह विरोधाभावात् तत्रापि वृत्तिसंशीत्या हेतोरनैकान्तिकत्वमिति । अपि च वचनं प्रकृष्टतरं ज्ञानयुक्तस्यैव-प्रकृष्टतरज्ञानयुक्तस्यैष पुंस उपपन्नतरं, 'तुः' पूरणे, ततो वक्तृत्वादित्ययं हेतुर्विरुद्धोऽप्यवसेयः, यथा - यत एव हि इत्थं सम्यग्वक्ता अत एवासौ सर्वज्ञोऽन्यस्येत्थं सम्यग्वादित्वायोगादिति ॥ १२७९ ॥ पराभिप्रायमाशङ्कते - सिय अह जो जो पुरिसो सो सो णो णाणपगरिससमेतो । दिति ताण अट्ठपरिगप्पणं काउं ॥ १२८० ॥ अथ स्यादियं तव मतिः- यो यः पुरुषो दृष्टः स स न ज्ञानप्रकर्षसमेतः पुरुषश्चासावपि ततो न युक्तमदृष्टपरिकल्पनं सर्वज्ञत्वपरिकल्पनं तस्य कर्तुमिति ॥ १२८० ॥ अत्र प्रतिविधानमाह - अस्सावणत्तजुत्तं सत्तं ससु चेव भावेसु । दिट्टं पिसहरू अविरोहा अण्णहा सिद्धं ॥ १२८१ ॥ श्रावणत्वयुक्तं सत्त्वं सर्वेष्वपि घटादिषु भावेषु दृष्टमथ च तत्तथा दृष्टमपि शब्दरूपे - शब्दखरूपे अन्यथा - श्रावण - त्वेन युक्तं सिद्धमविरोधात्, नहि सत्वस्य श्रावणत्वेन सह कश्चिदपि विरोधोऽस्ति ॥। १२८१ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy