Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Inte
एताऽभेदम्मि विजुज्जइ पच्चक्खसंसिद्धं ॥ ४३७ ॥
ननु सत्त्वादि साधारणमस्माभिरुक्तं, न च साधारणमित्येकमुच्यते, अपि तु परस्परं समानत्वम्, नचैतत्समानत्वं प्रत्यक्षप्रमाणसिद्धमेकान्ताभेदेऽपि युज्यते, आस्तामेकान्त भेदेऽपीत्यपिशब्दार्थः, तस्मान्न भावानां परस्परमेकत्वं प्राप्नोतीति । तदेवं यस्मात्साधारणसत्त्वाद्यनभ्युपगमे भावाभावः प्राप्नोति तस्मात्तदवश्यमङ्गीकर्त्तव्यम्, तथा च सति वस्तुनोऽत्यन्ताऽसाधारणरूपस्याभावात्तद्वाहकं भवत्परिकल्पितं निर्विकल्पकप्रत्यक्षमेव वाधितविषयं नतु प्रमाणसं - सिद्धसमानासमानरूपवस्तुग्रहणप्रवणं सविकल्पकमतस्तदेव प्रमाणं नत्वितरदिति ॥ ४३७ ॥ एतदेवोपसंहरन्नाह - तम्हा तग्गहणाओ ततो पवित्तीओं लोगसिद्धीओ । सवियप्पं पच्चक्खं सिद्धं ति कयं पसंगेण ॥ ४३८ ॥
तस्मात्तद्ग्रहणात्-समानासमानरूपवस्तुग्रहणात्तस्माच्च तद्ब्रहणात्प्रवृत्तेरविगानेन सकललोकसिद्धेः । चशब्दस्यानुक्तसमुच्चयार्थस्य गम्यमानत्वादेतदपि द्रष्टव्यं-प्रवृत्तस्य सतस्तथाभूतार्थप्राप्तेश्च संविकल्पकं ज्ञानं प्रत्यक्षं प्रमाणं सिद्धमक्षाश्रितत्वादविसंवादकत्वाच्च । ततः प्रत्यक्षप्रमाणेन अन्वयव्यतिरेकात्मकतया गृह्यमाणत्वाद्वस्तु परिणामरूपं सिद्धं, तत्सिद्धौ च सर्वथा विनाशाभावात् किमयं नाशः सहेतुकः किंवा निर्हेतुक इति चिन्ताऽप्यत्र नोपपद्यते इति कृतं
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424