Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पर
पावई नासो । तन्नासम्मि य भावो पुचविणहस्स भावस्स त्ति' । तदप्यसमीचीनम् , यतो घटादिनिवृत्तिविशिष्टानामेव कपालादीनामुत्तरोत्तरकार्यरूपतया परिणामः, ततो घटादिनिवृत्तेरपि उत्तरोत्तरपर्यायधर्मरूपतया परिणममानत्वात् न कृतकत्वान्नाशापादनमस्माकं दोषाय, तथाभ्युपगमात् । न च वाच्यं तन्नाशे घटादिभावोन्मजनप्रसङ्गः, यतः सा कपालसंबन्धिरूपतया विनश्यति न सर्वथा, परिणामपक्षे सर्वथा नाशाभावात् , उक्तं च-"नार्थान्तरगमो यस्मात्सर्वथैव न चागमः । परिणामः प्रमासिद्धः, इष्टश्च खलु पण्डितैः॥१॥ इति" ॥ इत्थं चैतदङ्गीकर्तव्यमन्यथा
त्वत्पक्षेऽपि भावकाले तुच्छरूपस्याभावस्याभावात् तत्क्षणानन्तरं च तस्य भावतः कादाचित्कतया भावस्येवं नाशे सति 8 दापुनर्भावोन्मजनप्रसङ्गो दुर्निवारः । अपि च, घटाभावस्य नाशहेतुर्मुत्पिण्डपर्यायः सकलसामग्रीकोऽन्त्यावस्थाप्राप्तो.
यतो य एव घटभावः स एव तदभावनाशस्ततो य एव घटस्य हेतुः स एव तदभावनाशस्थापि, घटस्य च हेतुर्यथोक्तरूपो मृत्पिण्डपर्यायः, सच घटपर्यायादृद्रं प्रायो न भवति, ततस्तदभावात् घटाभावनाशस्याप्यभाव इति कृतं प्रस
नेन । तदेवं न निर्हेतुको भावानां विनाशः किंतु सहेतुकस्तथा च कुतः क्षणिकत्वमिति ?॥ ४७३ ॥ एवमन्येऽपि ये तक्षणिकत्वप्रसाधनाय परिणामादयो हेतवः परैरुपन्यस्यन्ते ते सर्वेऽप्यहेतव एव द्रष्टव्याः, तथा चाह
१ भवतः इति ख-पुस्तके । २ भावस्यैव इति ख-पुस्तके ।
Jain Education inte
For Private & Personel Use Only
Sww.jainelibrary.org

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424