Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
इय नाणगहणपरिणामभावतो अत्तणो गहो जेण ।
सो चेव किन्न नाणं तुल्लम्मि तदनुभवगमम्मि ?॥ ४९२ ॥ इतिः-एवं वासिग्रहणवत् येन ज्ञानग्रहणपरिणामभावतो विवक्षितमर्थमनेन ज्ञास्यामीत्येवं ज्ञानग्रहणपरिणामभावेनात्मनो ग्रहो ज्ञानस्य भवति स-एवं परिणामस्तुल्ये-बोधरूपतया समाने 'तदभ्युपगमे तस्य परिणामस्याभ्युपगमे, बोधरूपे तस्मिन्नभ्युपगम्यमाने इत्यर्थः, किन्न ज्ञानमिप्यते बोधरूपतया ?, तत एव सकलविवक्षितार्थसिद्धेः स एव ज्ञानतया अभ्युपगन्तुं युक्त इति भावः । तथा च सत्यात्मनः कथंचिदभिन्नं ज्ञानं सिद्धमिति ॥ ४९२ ॥ अपि च,
इय कत्तिकरणभावे कजं संवित्तिलक्खणं कत्थ ?।
जति जीवे कहमन्नं नाणं तदभिन्नरूवं तु ? ॥ ४९३ ॥ । इतिः-एवं वासिवर्द्धकिवत् आत्मज्ञानयोः कर्तृकरणभावे सति कार्य संवित्तिलक्षणं कुत्र स्यात् ?, किं जीवे उत विषये ? । तत्र यदि जीवे ततः कथमात्मनो ज्ञानमन्यत्स्यात् ?, नन्वेवं तत्तदभिन्नरूपमेव स्यात् , संवित्तिपरिणामस्यैव ज्ञानशब्दवाच्यत्वात् , तस्य च जीवादभिन्नत्वात् । तुरेवकारार्थः॥ ४९३॥
अह विसए णणु एवं कहमिह जीवस्स अणुहवो लोए ?।
Jain Education Intl
For Private & Personel Use Only
Minww.jainelibrary.org

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424