Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 418
________________ धर्म संग्रहणि ||२०७॥ नमेवेति तदपि नूनमज्ञानित्वसूचकमेव, यतो यत् उपपत्त्या निश्चितं तदुपपन्नमित्युच्यते, अज्ञाने चाज्ञानपक्षे चाभ्युपगम्यमाने का उपपत्तिः?, नैव काचित् , तस्या ज्ञाननिबन्धनत्वात् , ज्ञानाच भवतामतीव दुरापास्तत्वादिति ॥५३३॥ यदुक्तं-'ज्ञात्वा प्रवृत्तेरिति,' तत्र परो व्यभिचारमाह अन्नाणओ वि दिट्ठा एत्थ पवित्ती किसादिएसुं ति। सफला य तीऍ वि फलं नाणातो चेव विन्नेयं ॥ ५३४॥ ___ कृष्यादिकर्मसु अत्र-जगति अज्ञानतोऽपि कृषीवलादीनां प्रवृत्तिदृष्टा, सफला च, ततो नावश्यं प्रेक्षावतां । ज्ञात्वैव प्रवृत्तिरिति । अत्राह-'तीए वि' इत्यादि तस्यामपि-कृष्यादिविषयायां प्रवृत्ती फलं ज्ञानादेव विज्ञेयम् ॥५३४॥ अत्र परः प्राह णण संसया पवित्ती फलसंपत्ती य निच्छयाओ उ। धन्नादिणाणरहिओ न हि गहणादौ कुणइ जु(ज)त्तं ॥ ५३५ ॥ | ननु कृष्यादिषु प्रवृत्तिः संशयादेव न ज्ञानात्तत्कथमुक्तम्-'तीए वि फलं नाणाओ चेव त्ति' । तथाहि-प्रवृत्तिनिद बन्धना फलप्राप्तिः प्रवृत्तिश्च संशयादतः फलप्राप्तिरपि संशयादेवेति भावः । आचार्य आह-फलसंपत्ती य निच्छ ॥२०७॥ - Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424