Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Int
याओ उ' अस्ति कृप्यादिषु प्रवृत्तिः संशयात्, फलप्राप्तिः - फलादानं पुनः चः पुनरर्थे तत्रापि निश्चयादेव, तुरेवकारार्थः । कुत इत्याह- हिर्यस्मान्न खलु धान्यादिज्ञानरहितस्तग्रहणादौ यत्वं करोति, तथाऽनुपलम्भात्, तन्न प्रवृत्तेः संशयकृतत्वात् फलप्राप्तिरपि संशयादेव । एवमिहाप्यज्ञानपक्षे प्रथमतस्तद्विचाराभिमुख्यादिलक्षणात् संशयादपि प्रवृत्तिः स्यात् तदा दानाभ्युपगमस्तु ज्ञानादेव युज्यते नान्यथा, तब ज्ञानं भवतां खाभ्युपगम विरुद्धमिति यत्किंचिदेतत् । ज्ञात्वा प्रवृत्तेरित्यत्रापि च प्रवृत्तिरुपादानलक्षणा विवक्षिता नेतरेत्यदोषः । अन्यथा ज्ञात्वा प्रवृत्तेरित्यस्योक्तप्रकारेण व्यभिचारदर्शनतोऽसाधनाङ्गत्वे तदभिधातुराचार्यस्य निग्रहस्थानमापद्येतेति ॥ ५३५ ॥ यत्पुनरुक्तम्- 'सवणे वि तत्रिवक्खा नहि छउमत्थस्स पचक्खे' त्यादि तत्र प्रतिविधानमाह -
नजतिय विवखापच्चक्खत्ते वि तस्सभिपाओ । भणिओववत्तिओ च्चिय मिलक्खुणातं तओऽजुत्तं ॥ ५३६ ॥
ज्ञायते च तद्विवक्षायाः - सर्वज्ञविवक्षाया अप्रत्यक्षत्वेऽपि तस्य - सर्वज्ञस्याभिप्रायः । कुत इत्याह- भणितोपपत्तितः'पवत्तमाणं जन्न निवारेइ' इत्यादिरूपायाः । ततश्च यत् म्लेच्छज्ञातमुदीरितं तदयुक्तमेव द्रष्टव्यमिति ॥ ५३६ ॥ यदपि च 'जं वा कजे' साद्यभिहितं तदप्यसंगतम्, यत आह
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 417 418 419 420 421 422 423 424