Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 410
________________ %8 + धर्म संग्रहणि: ॥२०॥ सो आगमो ततो जं णाणं तं सम्मणाणं ति ॥ ५१९ ॥ यस्मिन्नागमे दृष्टेन-प्रत्यक्षानुमेयरूपेण इष्टेन च-खाभ्युपगतेन न कथंचिदपि विरोधो युज्यते स खलु तत्त्वत: आगमः शेषस्तु तदाभासः । तस्माच दृष्टेष्टाबाधितादागमात् यत् ज्ञानमुपजायते तत्सम्यक ज्ञानं नेतरत् । ततः कथमेतदेवमिति न विनिश्चयः कर्तुं शक्यते इति ॥ ५१९ ॥ कः पुनरसायागमो दृष्टेष्टाऽवाधित इति चेत् | अत आह सो उण जीवववत्थावणादिणा दंसिओ तु लेसेणं । ववहारजोगउ च्चिय वित्थरयो उवरि वोच्छामि ॥ ५२० ॥ __स पुनदृष्टेष्टाऽवाधित आगमो व्यवहारयोगत एव यथैव प्रतिप्राणि प्रसिद्धो व्यवहारो घटते तथैव जीवव्यवस्थासपनादिना लेशेन दर्शित एव । तुरवधारणे । उक्तं च-"तुः स्याद्भेदेऽवधारणे" इति । विस्तरस्तु उपरि सर्वज्ञसिद्धौ | वक्ष्यामीति ॥५२०॥ यदपि च 'जं सवण्णुवएसा जायइ अह तं मयं सुविण्णाण'मित्याशयोक्तम्-'तब्भावे किंमाणदामित्यादि', तत्रापि प्रतिविधानमाह तत्तो च्चिय फलभूओ सबन्नू चिय असंसयं सिद्धो। en Education Internacional For Private Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424