Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 395
________________ Jain Education Inte ता गुणगुणिणो सिद्धो संवेदणओ अभेदोवि ॥ ४८८ ॥ एवम् उक्तेन प्रकारेण समवायोऽपि 'हु' निश्चितं गुणानां प्रतिनियताधारताया निमित्तं परैः परिकल्पितश्चिन्त्यमा - नः सर्वथा न घटते । तस्मात् गुणगुणिनोः - ज्ञानात्मलक्षणयोः संवेदनतः - प्रतिनियताधारतान्यथानुपपत्तिलक्षणयुक्तिमूलानुभवादभेदोऽपि कथंचित्सिद्ध इति स्थितम् ॥ ४८८ ॥ अत्र परस्य मतमाशङ्कमान आहसिय करणमेव नाणं आता कत्त त्ति चैव भेदो तु । हि वसवणं इहं अभेदो कहंचिदवि ॥ ४८९ ॥ स्यादेतत् ज्ञानं करणमेव, आत्मा तु कर्त्ता, इतिरेवं कर्तृकरणभावेन ज्ञानात्मनोर्भेद एव । तुशब्द एवकारार्थः । भेदमेव कर्तृकरणयोर्दृष्टान्तेन साधयन्नाह - 'नहीत्यादि' नहि वासिवर्द्धक्योरिह - जगति अभेदः कथंचिदपि भवति, किंतु भेद एव, स च कर्तृकरणभावनिबन्धनः, कर्तृकरणभावश्च ज्ञानात्मनोरप्य विशिष्ट इत्यत्रापि भेद एवेति भावः ।। ४८९ ।। अत्राह - तं खलु बज्झं करणं नाणं पुण अंतरं ति वेधम्मं । न य अपरिणओ उ तहा अगेण्हिउं तीं अयं घडति ॥ ४९० ॥ For Private & Personal Use Only %% www.jainelibrary.org

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424