Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 394
________________ ॥ १९५॥ किंच, इह - विचारप्रक्रमे तौ खपरसंबन्धनखभावौ ततः - समवायात्सकाशाद्भिन्नौ वा स्यातामभिन्नौ वा ? | यदि | भिन्नौ ततो भेदे सति तस्य - समवायस्यैतौ खभावाविति संबन्धः कथं स्यात् ?, नैव कथंचनापि । संबन्धनिबन्धनस्य समवायान्तरस्यानवस्थाभयादनभ्युपगमात् । अथाभिन्नौ ततः समवायमात्रमेव, न तौ, तदव्यतिरिक्तत्वात्, तत्खरूपवत् । तथाह - 'अभेदे कह दोन्नि' अभेदे सति कथं द्वौ - समयायतत्स्वभावद्वयलक्षणौ कथं भवतो ?, नैव कथंचन, खभावयोः समवाये अन्तर्भूतत्वात् ॥ ४८६ ॥ अन्यच्च, 'अयुतसिद्धानामाधार्याधारभूतानामिहेति प्रत्ययहेतुर्यः संवन्धः स समयाय' इति वचनादिहेति बुद्धिगम्यः समवाय इष्यते, सोऽप्यनैकान्तिक इति दर्शयन्नाह - समवाइसु समवातो इह बुद्धी जह विणा तयं इट्ठा । इय जीवे णाणमियं ण हवइ णणु केण कज्जेणं ? ॥ ४८७ ॥ यथा तर्क - समवायं विना इह - समवायिषु समवाय इतीह बुद्धिरिष्टा । इतिः- एवमिह - जीवे ज्ञानमितीयमपि इह बुद्धिः समवायं विना केन कार्येण - केन कारणेन न भवति ?, भवत्येवेति भावः । तुल्ययोगक्षेमत्वात् । तदेवमास्तां तावत्खरूपतश्चिन्त्यमानः समवायो न घटते, इहप्रत्ययगम्यतयापि न घटत इत्युपपादितम् ||४८७॥ सांप्रतमुपसंहारमाहएवं समवातोऽवि हु चिंतिज्जंतो न सवहा घडइ । Jain Education International For Private & Personal Use Only संग्रहणिः ॥ १९५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424