Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
॥१९७॥
********SUSANAAAAAAAA
अह तत्तो च्चिय भेदे कहं ण अन्नस्स तदभेदा?॥४९४॥
संग्रहणि:अथ विषये कार्य संवित्तिलक्षणमिष्येत नन्वेवं तर्हि कथमिह जगति प्रतिप्राणि प्रसिद्धो जीवस्यानुभवः स्यात् ?, नैव कथंचन, तस्य विषयेऽभ्युपगमात् । अथ तत एव विषयाजीवस्याप्यनुभवो भवतीतीष्यते । तत्राह-भेदे इत्यादि' भेदे सति कथंचन ( कथं न ) अन्यस्य-विवक्षितस्य पुंसो भवति?, तस्यापि स्यादेवेति भावः। कुत इत्याह-'तदभेदात्' तस्याभेदस्याभेदाद्-अविशेषात् ॥ ४९४ ॥ अभ्युपगम्याप्येतत् दोषान्तरमाह
तत्तोवि जइ तइ तम्मि हंत एवंपि सा णहि ण णाणं ।
तब्भावम्मि य चिंतं आता णाणाउ अन्नो त्ति ॥ ४९५॥ ततोऽपि-विषयादपि यदि 'तई त्ति' सका संवित्तिरनुभवापरपर्याया तस्मिन्-विवक्षिते जीवे भवतीतीप्यते, हन्त एवमपि, हन्तेति परस्य स्वपक्षव्यवस्थापने दुःस्थितस्याऽनुकम्पायाम् , “हन्त हर्षेऽनुकम्पायामिति" वचनात् , नहि सा संवित्तिन ज्ञानं, किंतु ज्ञानमेव । ज्ञानं संवित्तिरनुभव इत्यादिशब्दानां पर्यायत्वात् । तद्भावे च-ज्ञानभावे च एतत् ||१९७॥ चिन्त्यं आत्मा ज्ञानादन्य इति ॥ ४९५॥ अत्र परस्याभिप्रायमाशङ्कते
सिय कत्तिकरणभावो अभेदपक्खम्मि जुजई किह णु ? ।
Jain Education Internation
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424