Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ह-'ण एत्थ वि पमाणं' न तत्रापि-देवागमादौ किंचित् प्रमाणं, नहि देवागमादिकं तस्यासीदित्यत्र किंचित् प्रमाणमस्ति, भवेद्वा प्रमाणं तथापि नेदं देवागमादिकं सर्वज्ञविशेषावसायलिङ्गम् । यत आह-'साहारणं च तं पि हु इति तदपि-देवागमादिकं तदन्यमायाविनामपि साधारण-समानम् , उक्तं च भावत्करपि-"देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥१॥” इति ॥ तस्मान्न देवागमादिकमपि सर्वज्ञविशेषावसायलिङ्गम् । अत्रैवाभ्युच्चयेनाह-'भावम्मि वि तदुवएसम्मि' भावेऽपि देवागमादीनां सर्वज्ञविशेषावसायलिङ्गत्वस्य, तदुपदेशे-विवक्षितवर्द्धमानखाम्यादिसर्वज्ञविशेषोपदेशे किं प्रमाणं? यथाऽयं वर्द्धमानखाम्युपदेशो नत्वन्यकृत इति ।। नैवात्र किंचित् प्रमाणमिति भावः ॥५०४॥ अभ्युपगम्याप्येतत् दूषणान्तरमाह
णातेवि तदुवदेसे एसेवत्थो मउ ति से कह णु ? ।
नजइ चित्तत्था खल्लु जं सदा समइयाणेगे ॥ ५०५॥ ज्ञातेऽपि तदुपदेशे-विवक्षितवर्द्धमानखाम्यादिसर्वज्ञविशेषस्य संबन्धित्वेनोपदेशे तस्य-उपदेशस्य एष एवार्थो मतो लोनत्यन्य इति कथं नु ज्ञायते?, नैव कथंचन, यस्मादनेके शब्दाः समयिताः सन्तो लोके खलु चित्रार्था-नानार्थाः
श्रयन्ते । तस्मान्न तदुपदेशस्य विवक्षितार्थनियमनिश्चय इति ॥ ५०५॥ अत्र परः सूरमतमाशङ्कमान आह
Jain Education in
For Private & Personel Use Only
Pww.jainelibrary.org

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424